← सूक्तं २०.०२७ अथर्ववेदः - काण्डं २०
सूक्तं २०.०२८
गोषूक्त्यश्वसूक्तिनौ।
सूक्तं २०.०२९ →
दे. इन्द्रः। १-२ गायत्री, ३-४ त्रिष्टुप्।

व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।
इन्द्रो यदभिनद्वलम् ॥१॥
उद्गा आजदङ्गिरोभ्य आविष्क्र्ण्वन् गुहा सतीः ।
अर्वाञ्चं नुनुदे वलम् ॥२॥
इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।
स्थिराणि न पराणुदे ॥३॥
अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।
वि ते मदा अराजिषुः ॥४॥