← सूक्तं २०.०३२ | अथर्ववेदः - काण्डं २० सूक्तं २०.०३३ अष्टकः। |
सूक्तं २०.०३४ → |
दे. इन्द्रः। त्रिष्टुप्। |
अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥१॥
प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥२॥
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥३॥
टिप्पणी