← सूक्तं २०.०५७ अथर्ववेदः - काण्डं २०
सूक्तं २०.०५८
१-२ नृमेधः, ३-४ जमदग्निः।
सूक्तं २०.०५९ →
दे. १-२ इन्द्रः, ३-४ सूर्यः। प्रगाथः( बृहती-सतोबृहती)।

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥१॥
अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥२॥
बण्महामसि सूर्य बडादित्य महामसि ।
महस्ते सतो महिमा पनस्यतेऽद्धा देव महामसि ॥३॥
बट्सूर्य श्रवसा महामसि सत्रा देव महामसि ।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥४॥