← सूक्तं २०.०५९ अथर्ववेदः - काण्डं २०
सूक्तं २०.०६०
१-३ सुकक्षः, सुतकक्षो वा, ४-६ मधुच्छन्दाः।
सूक्तं २०.०६१ →
दे. इन्द्रः। गायत्री।

एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
एवा ते राध्यं मनः ॥१॥
एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
अघा चिदिन्द्र मे सचा ॥२॥
मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।
मत्स्वा सुतस्य गोमतः ॥३॥
एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
पक्वा शाखा न दाशुषे ॥४॥
एवा हि ते विभूतय ऊतय इन्द्र मावते ।
सद्यश्चित्सन्ति दाशुषे ॥५॥
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
इन्द्राय सोमपीतये ॥६॥