अथर्ववेदः/काण्डं २०/सूक्तम् ०७६

← सूक्तं २०.०७५ अथर्ववेदः - काण्डं २०
सूक्तं २०.०७६
वसुक्रः।
सूक्तं २०.०७७ →
दे. इन्द्रः। त्रिष्टुप्।

वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः ।
यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥१॥
प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।
अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान् ॥२॥
कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।
कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥३॥
कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् ।
मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः ॥४॥
प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।
गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥५॥
मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।
वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥६॥
आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः ।
स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥७॥
व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥