← सूक्तं २०.०७७ | अथर्ववेदः - काण्डं २० सूक्तं २०.०७८ शंयुः। |
सूक्तं २०.०७९ → |
दे. इन्द्रः। गायत्री। |
तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥१॥
न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
यत्सीमुप श्रवद्गिरः ॥२॥
कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्।
शचीभिरप नो वरत्॥३॥