← सूक्तं २०.०८९ अथर्ववेदः - काण्डं २०
सूक्तं २०.०९०
भरद्वाजः।
सूक्तं २०.०९१ →
दे. बृहस्पतिः। त्रिष्टुप्

यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।
द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥
जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार ।
घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन् ॥२॥
बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः ।
अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥