← सूक्तं २०.१०५ अथर्ववेदः - काण्डं २०
सूक्तं २०.१०६
ऋ.गोषूक्त्यश्वसूक्तिनौ।
सूक्तं २०.१०७ →
दे. इन्द्रः। उष्णिक्।

तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।
वज्रं शिशाति धिषणा वरेण्यम् ॥१॥
तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।
त्वामापः पर्वतासश्च हिन्विरे ॥२॥
त्वां विष्णुर्बृहन् क्षयो मित्रो गृणाति वरुणः ।
त्वां शर्धो मदत्यनु मारुतम् ॥३॥