← सूक्तं २०.१२२ अथर्ववेदः - काण्डं २०
सूक्तं २०.१२३
कुत्सः।
सूक्तं २०.१२४ →
दे. सूर्यः। त्रिष्टुप्।

तत्सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर्विततं सं जभार ।
यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥१॥
तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥२॥