← सूक्तं २०.१३२ अथर्ववेदः - काण्डं २०
सूक्तं २०.१३३
कुन्तापसूक्तानि
सूक्तं २०.१३४ →

विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः ।
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥१॥
मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते ।
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥२॥
निगृह्य कर्णकौ द्वौ निरायच्छसि मध्यमे ।
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥३॥
उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि ।
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥४॥
श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि ।
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥५॥
अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे ।
न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥६॥