← सूक्तं २०.१३७ | अथर्ववेदः - काण्डं २० सूक्तं २०.१३८ वत्सः। |
सूक्तं २०.१३९ → |
दे. इन्द्रः। गायत्री। |
महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव ।
स्तोमैर्वत्सस्य वावृधे ॥१॥
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
विप्रा ऋतस्य वाहसा ॥२॥
कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
जामि ब्रुवत आयुधम् ॥३॥