← काण्डं २ | अथर्ववेदः - काण्डं २ सूक्तं २.१ वेनः। |
सूक्तं २.०२ → |
दे. ब्रह्म, आत्मा। त्रिष्टुप्, ३ जगती। |
वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् ।
इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥
प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्।
त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥
स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा ।
यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥
परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य ।
वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥
परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् ।
यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥
सायणभाष्यम्
अथ द्वितीयं काण्डम्
श्रीगणेशाय नमः॥
वागीशाद्याः सुमनसः सर्वार्थानाम् उपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥१॥
यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥२॥
द्वितीये काण्डे षड् अनुवाकाः । तत्र प्रथमेऽनुवाके पञ्च सूक्तानि । तत्र ‘वेनस्तत्' इति प्रथमं सूक्तम् । तस्य अभिमतफलसिद्ध्यसिद्धिविज्ञानकर्मसु विनियोगः । तानि च --पञ्चपर्वयुतवेणुदण्डं' काम्पीलवृक्षशाखां युगं वा अभिमन्त्र्य अभिमतकार्यं संचिन्त्य समे देशे ऊर्ध्वं धारयेत् । यदि दण्डादयश्चिन्तितदिशि निपतेयुः तदा कार्यसिद्धिं जानीयात् विपर्यये तु असिद्धिम् । तद्वदेव इषुं संधाय अनेन सूक्तेन अभिमन्त्र्य विसृजेत् । निर्दिष्टलक्ष्यपतनेन अर्थसिद्धिः।
तथैव उदकपूर्णे कुम्भे कमण्डलौ वा दुग्धं प्रक्षिप्य आयाचेत् । ऊनेन अधिकेन वा यथासंकल्पम् अर्थसिद्धिः।
तथैव दर्भस्तम्बम् अनेन अभिमन्त्र्य कार्यं चिन्तयित्वा गणयेत्। समसंख्यायाम् अभिमतसिद्धिः।
एवम् इध्मम् अभिमन्त्र्य अग्नौ प्रक्षिपेत् । प्रदक्षिणज्वलनेन इष्टसिद्धिः।
तथैव अक्षान् अनेन अभिमन्त्र्य प्रक्षिपेत् । इष्टसंख्यापतनेन कार्यसिद्धिः।
एवं हस्तयोरङ्गुलिद्वयम् अनेन अभिमन्त्र्य चिन्तयेत् । उद्दिष्टाङ्गुलिस्पर्शनेन अभिलषितसिद्धिः।
तथैव एकविंशतिसंख्याकाः शर्करा अभिमन्त्र्य ततो गृहीत्वा विभजेत् । यथोद्देशं समविषमभावेन अर्थसिद्धिः।
तथा नष्टद्रव्यविज्ञानार्थम् उदकुम्भम् हलम् अक्षान् वा नववस्त्रेण आवेष्ट्य संपात्य अभिमन्त्र्य अरजोवित्ते कुमार्यौ हरतम् इति ब्रूयात् । ते च येन दिग्भागेन हरेतां ततो नष्टम् इति जानीयात् ।
तथैव विवाहात् प्राक् कुमार्याः सौभाग्यादिलक्षणविज्ञानकर्मण्यपि आकृतिलोष्टवल्मीकलोष्टचतुष्पथलोष्टश्मशानलोष्टरूपाश्चतस्रो मृत्तिका अनेनैव सूक्तेन अभिमन्त्र्य आसाम् अन्यतमां गृहाणेति कुमारीं ब्रूयात् । तत्र आकृतिलोष्टवल्मीकलोष्टयोः स्पर्शने कल्याणं भवति । आकृतिलोष्टः क्षेत्रमृत्तिकेति पूर्वम् उक्तम् । चतुष्पथलोष्टस्पर्शनेन [बहुचारिणी भविष्यति श्मशानलोष्टस्पर्शनेन] मरिष्यतीति जानीयात् ।
तथा कुमार्या अञ्जलौ उदकम् आपूर्य अभिमन्त्र्य प्रक्षिपेति तां ब्रूयात् । यदि प्राचीं दिशं प्रति निनयेत् तदा कल्याणं प्रतीयात् ।
अत्र सूत्रम् -- " 'वेनस्तत्' इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुगेध्माक्षेषु पाण्योरेकविंशत्यां शर्करासु" इत्यादि 'उदकाञ्जलिं निनयेत्याह । प्राचीनम् अपक्षिपन्त्यां कल्याणम्' (कौसू ३७,३-१२) इत्यन्तं द्रष्टव्यम्।
अत्र ‘स नः पिता जनिता' ( अ २,१,३) इत्यस्या ऋचः अग्निचयने षोडशगृहीतोत्तरार्धाज्येन वैश्वकर्मणहोमे विनियोगः । उक्तं वैताने-- “ 'यो विश्वचर्षणिः' ( अ १३,२,२६ ) इत्यौपवसथ्ये षोडशगृहीतार्धस्य ‘स नः पिता जनिता' (अ २,१,३ ) इत्युत्तरार्धस्य" (वैताश्रौ २९,१४ ) इति।
वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् ।
इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥
वेनः । तत् । पश्यत् । परमम् । गुहा । यत् । यत्र । विश्वम् । भवति । एकऽरूपम् ।
इदम् । पृश्निः । अदुहत् । जायमानाः । स्वःऽविदः । अभि । अनूषत । व्राः ॥ १ ॥
वेनतेः कान्तिकर्मसु पाठाद् दीप्यमान आदित्यो वेनः इत्युच्यते । ‘वेनो वेनतेः कान्तिकर्मणः' इति हि यास्कः (१०,३८) । गुहा गुहायाम् । 'सुपां सुलुक्” (पा ७,१,३९) इति सप्तम्या लुक् । गुहारूपे सर्वप्राणिहृदये यत् श्रुत्यन्तरप्रसिद्धं सत्यज्ञानादिलक्षणं परमम् ब्रह्म । यत्र यस्मिन् अधिष्ठानरूपे ब्रह्मणि विश्वम् आरोपितं कृत्स्नं जगत् एकरूपम् एकाकारं भवति आरोपितस्य अधिष्ठानव्यतिरेकेण सत्त्वाभावात् । आह स्म भगवान् बादरायणः-- 'तदनन्यत्वम् आरम्भणशब्दादिभ्यः' (ब्रसू २,१,१४ ) इति । भवतीति । शप्तिपोः पित्त्वाद् अनुदात्तत्वे धातुस्वरेण आद्युदात्तत्वम् । 'तिङ्ङतिङः' (पा ८,१,२८) इति निघातस्य च 'निपातैर्यद्यदिहन्त' (पा ८,१,३०) इति प्रतिषेधः। तत् उक्तलक्षणं ब्रह्म वेनः पश्यत् अपश्यत् । स्वानन्यत्वेन साक्षात्कृतवान् इत्यर्थः। दृशेर्लङि 'बहुलं छन्दस्यमायोगेऽपि' (पा ६,४,७५) इति अडभावः । पृश्निः । दिवश्व आदित्यस्य च साधारणनामैतत् । प्राप्तोज्ज्वलवर्ण आदित्यः। आह च यास्कः -- 'पृश्निरादित्यो भवति प्राश्नुत एनं वर्ण इति नैरुक्ताः' (नि २,१४ ) इति । इदम् भूतभौतिकप्रपञ्चजातम् अदुहत् । अनुद्भूतनामरूपात्मकं जगत् ब्रह्मानन्यत्वेन सर्वशक्तित्वाद् उद्भूतनामरूपत्वेन व्यक्तम् अकार्षीद् इत्यर्थः। दुहेर्लुङि छान्दसः अङ् । जायमानाः उत्पद्यमानाः व्राः । व्रियन्त इति व्राः । 'घञर्थे कविधानम् स्थास्नापाव्यधिहनियुध्यर्थम्' (पावा ३,३,५८) इति परिगणनस्य उपलक्षणार्थत्वाद् वृञ् वरणे इत्यस्मात् कप्रत्ययः । आवृतात्मानः प्रजाः स्वर्विदः । स्वःशब्दाभिधेयम् आदित्यं स्वोत्पादकं विदन्ति जानन्तीति स्वर्विदः । 'स्वरादित्यो भवति । सु अरणः, सु ईरणः' इति हि निरुक्तम् (२,१४ ) अभ्यनूषत आभिमुख्येन तम् आदित्यं स्तुवन्ति । णू स्तवने। 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति वर्तमाने लुङ् । व्यत्ययेन आत्मनेपदम्। कुटादित्वेन सिचो ङित्त्वाद् गुणाभावः । 'अनित्यमागमशासनम्' इति इडभावः। यद्वा। वेनः पर्जन्यात्मा मध्यमस्थानो देवः । 'वायुः वरुणः' इति प्रक्रम्य 'वेनः असुनीतिः' ( निघ ५,४ ) इति मध्यमस्थानदेवगणे पाठात् । तत् आदित्यमण्डलस्थम् उदकं पश्यति । तदेव विशिनष्टि--परमम् उत्कृष्टं गुहारूपे आदित्यमण्डले यद् उदकम् अस्ति । यत्र च उदके विश्वम् जगत् एकरूपम् नैमित्तिकप्रलये उदकात्मकं भवति। 'आपो वा इदम् अग्रे सलिलम् आसीत्' (तै ७,१,५,१) इति, 'आपो वा इदं सर्वं विश्वा भूतान्यापः' ( तैआ १०,२२,१ ) इति च श्रुतेः । अथवा यत्र यस्मिन्नुदके विषये विश्वम् एकरूपम् उपजीव्यत्वेन एकाकारबुद्धिमद् भवति । श्रूयते हि-- 'नानामनसः खलु वै पशवो नानाव्रतास्तेऽप एवाभि समनसः' (तै ५,३,१,३ ) इति । तत् पश्यतीति संबन्धः। इदम् । उदकनामैतत् । उदकम् उक्तम् उदकं पृश्निः आदित्यः तद्रश्मिसमूहो वा अदुहत् वर्षति । 'यदा खलु वा असावादित्यो न्यङ् - रश्मिभिः पर्यावर्ततेऽथ वर्षति' (तै २,४,१०,२) इति, 'याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति' ( तैआ १०,६३,१) इति तैत्तिरीयकश्रुतेः ।
'आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' (मस्मृ ३,७६ )।
इति स्मृतेश्च । जायमानाः पृश्नेरुत्पद्यमानाः स्वर्विदः सुखस्य लम्भयित्रीः व्राः व्रियमाणाः संभज्यमानाः स्वीक्रियमाणा अपः सर्वे जना अभ्यनूषत अभिष्टुवन्ति । एवम् उक्तलक्षणः सर्वज्ञ आदित्यः शुभाशुभविज्ञानं करोतु इति विज्ञानकर्मणा संबन्धः ।
प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्।
त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥
प्र । तत् । वोचेत् । अमृतस्य । विद्वान् । गन्धर्वः । धाम । परमम् । गुहा । यत् ।
त्रीणि । पदानि । निऽहिता । गुहा । अस्य । यः । तानि । वेद । सः। पितुः। पिता । असत् ॥ २॥
अमृतस्य अविनाशिनो ब्रह्मणो विद्वान् जानन् । ‘क्रियाग्रहणं कर्तव्यम्' ( पावा १,४,३२ ) इति कर्मणः संप्रदानत्वात् 'चतुर्थ्यर्थे बहुलं छन्दसि' (पा २,३,६२) इति षष्ठी। न त्वत्र 'कर्तृकर्मणोः कृति' (पा २,३,६५ ) इति कर्मणि षष्ठी। 'न लोकाव्ययनिष्ठा” (पा २,३,६९) इति तस्याः प्रतिषेधविधानात् । स्वरूपपदाध्याहारेण वा संबन्धः अमृतस्य स्वरूपं विद्वान् इति । न विद्यते मृतं यस्येति बहुव्रीहौ समासे 'नञ्सुभ्याम्' (पा ६,२,१७२ ) इत्युत्तरपदान्तोदात्तत्वे प्राप्ते 'नञो जरमरमित्रमृताः (पा ६,२,११६ ) इत्युत्तरपदाद्युदात्तत्वम् । गन्धर्वः । गावो रश्मयः तान् धारयतीति गन्धर्व आदित्यः । 'सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरसः' (तै ३,४,७,१ ) इति श्रुतेः। गां वेदलक्षणां वा धारयतीति गन्धर्वः । 'ऋग्भिः पूर्वाह्णे दिवि देव ईयते' (तैब्रा ३,१२,९,१) इत्यादिश्रुतेः । ‘गवि गन् धृञो वः' पाउना ५,८४ ) इति गोशब्दोपपदाद् धृञो वप्रत्ययः । गोशब्दस्य गनादेशः। तत् उक्तलक्षणं ब्रह्म प्र वोचेत् प्रब्रवीतु । उपासकेभ्य इति शेषः । 'व्यवहिताश्च' (पा १, ४, ८२) इति प्रोपसर्गस्य व्यवहितक्रियया संबन्धः । ब्रूञ् आशीर्लिङि वच्यादेशे 'लिङ्याशिष्यङ्' (पा ३,१,८६) इति अङ्प्रत्ययः। 'वच उम्' (पा ७,४,२०) इति उमागमः । किं तद् इति तद् आह -- परमम् क्रियाफलभूतविनश्वरस्वर्गाद्यपेक्षया उत्कृष्टं धाम पुनरावृत्तिरहितं स्थानम् । उक्तं हि भगवता --
'न तद् भासयते सूर्यो न शशाङ्को न पावकः ।
यद् गत्वा न निवर्तन्ते तद् धाम परमं मम ।' ( भगी १५,६ ) इति ।
अस्य गुहा गुहायां हृद्रपायां स्थितं यत् तत्त्वं तद् वोचेत् इति संबन्धः। हृदयस्थस्य नित्यापरोक्षस्य परतत्त्वस्य उपदेश्यत्वम् अनुपपन्नम् इत्यत आह -- त्रीणि पदानीति । परमात्मनस्त्रीणि पदानि गुहा गुहायां निहिता निहितानि । यद्यपि अत्र निरुपाधिकस्य ब्रह्मणो निरवयवत्वात् पादकल्पना नोपपद्यते तथापि भूतभौतिकप्रपञ्चजातात् तदुपादानस्य आत्मनो निरतिशयमहत्त्वं प्रतिपादयितुं त्रिपदत्वम् उक्तम् इति अविरोधः। यथा छान्दोग्ये--'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' ( छाउ ३,१२,६ ) इति । गुहानिहितपदार्थवत् अज्ञातम् अपरिच्छिन्नं ब्रह्म उपदेशैकसमधिगम्यम् अस्तीति तात्पर्यार्थः । निहितेति । निपूर्वाद् धाञः कर्मणि निष्ठा । 'दधातेर्हिः' (पा ७,४,४२ ) इति हिरादेशः। 'शेश्छन्दसि बहुलम्' (पा ६,१,७० ) इति शेर्लोपः। ‘गतिरनन्तरः' (पा ६, २,४९) इति गतेः प्रकृतिस्वरत्वम् । यद्वा अस्य पूर्वोक्तस्य परब्रह्मणः त्रीणि पदानि । पद्यन्ते गम्यन्ते मुमुक्षुभिः प्राप्यन्त इति पदशब्देन अंशीभूता विराड्ढिरण्यगर्भेश्वरा उच्यन्ते । गुहा । गूहयति संवृणोति परिच्छिनत्ति परमात्मानम् इति गुहा माया। तत्र निहितानि समष्टिरूपेण उपहितानि । गुरूपदेशजनितब्रह्मावबोधस्य प्रयोजनम् आह--यः शमदमादिसंपन्नोऽधिकारी तानि तत् पादत्रयोपलक्षितं निष्कलं ब्रह्म वेद जीवेश्वरोपाधिपरित्यागेन साक्षात्करोति । वेत्तेः 'विदो लटो वा' (पा ३,४,८३ ) इति तिपो णलादेशः। 'लिति' (पा ६,१,१९३ ) इति प्रत्ययात् पूर्वस्य उदात्तत्वम् । 'यद्वृत्तान्नित्यम्' ( पा ८, १,६६ ) इति निघातप्रतिषेधः। स विद्वान् पितुः स्वजनकस्यापि पिता कारणभूतः असत् भवति । अस्तेर्लेटि अडागमः। सर्वजगदधिष्ठानभूतब्रह्मीभावेन स्वस्यापि सर्वजगत्कारणत्वोपपत्तेः । तद् उक्तं सामब्राह्मणे -- 'शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृद् आसीत् स पितॄन् पुत्रका इत्यामन्त्रयत' ( तां १३,३,२४ ) इत्यादि । स्मर्यते च --
'अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥
ते तम् अर्थम् अपृच्छन्त देवान् आगतमन्यवः ।
देवाश्चैनान् समेत्योचुर्न्याय्यं वः शिशुरुक्तवान् ॥' (मस्मृ २,१५१,१५२) इति।
अथवा तानि विराड्ढिरण्यगर्भेश्वरतत्त्वानि वेद प्रणवावयवैः अकारादिभिः व्यष्टिरूपाणां विश्वतैजसप्राज्ञानां समष्टिरूपविराडादितादात्म्यज्ञानपुरःसरं तुरीयं वस्तु यो वेद स पितुः पिता असद् इति पूर्ववत् ।
स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा ।
यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥
सः। नः। पता। जनिता । सः। उत । बन्धुः। धामानि । वेद । भुवनानि । विश्वा ।
यः। देवानाम् । नामऽधः । एकः । एव । तम् । सम्ऽप्रश्नम् । भुवना । यन्ति । सर्वा ॥३॥
स सूर्यात्मकः परमात्मा नः अस्माकं पिता पालयिता। न केवलं पालकः किंतु जनिता जनयिता उत्पादकः । 'जनिता मन्त्रे' (पा ६, ४, ५३) इति निपातनात् णिलोपः। उत अपिच स उक्त एव बन्धुः भ्रात्रादिरूपो बन्धुवर्गः । पित्रादीनां चेतनानां तद्व्यतिरेकेण अभावात् तत्तन्नामभिः स एवाभिधीयत इत्यर्थः। बन्धुः । बन्ध बन्धने । 'शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' ( पाउ १,१०) इति उप्रत्ययः। 'धान्ये नित्' (पाउ १,९) इत्यतो नित् इत्यनुवृत्तेः 'नित्यादिर्नित्यम्' (पा ६,१,१९७) इत्याद्युदात्तत्वम्। इदानीं तस्य सर्वज्ञताम् आह--धामानि कर्मफलभूतस्वर्गादिस्थानानि । 'धामानि त्रयाणि भवन्ति । स्थानानि नामानि जन्मानीति' । इति हि निरुक्तम् (९,२८ )। तत्र स्थितानि विश्वा विश्वानि सर्वाणि भवन्ति सत्तां लभन्ते उत्पद्यन्ते इति भुवनानि भूतजातानि च वेद । स्वाध्यस्तं कृत्स्नप्रपञ्चं स्वाभिन्नं जानातीत्यर्थः । तथा य उक्तः परमात्मा एक एव देवानाम् इन्द्रादीनां स्वसृष्टानां नामधाः । इन्द्रमित्रादीनि नामानि दधाति विदधाति करोतीति नामधाः। श्रूयते हि-- 'सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते' (तैआ ३,१२,७) इति । यद्वा इन्द्राग्न्यादिदेवतात्मकः सन् तत्तन्नामानि स्वयमेव धत्ते इति नामधाः । तथा चाम्नायते --'तदेवाग्निस्तद् वायुस्तत् सूर्यस्तदु चन्द्रमाः । तदेव शुक्रं *[अमृतं] तद् ब्रह्म तद् आपः स प्रजापतिः' (तैआ १०,१,२) इति । 'इन्द्रं मित्रं वरुणम् अग्निम् आहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानम् आहुः' (ऋ १,१६४,४६) इति । नामोपपदात् दधातेः 'आतो मनिन्क्वनिब्वनिपश्च' (पा ३,२,७४) इति चकाराद् विच्प्रत्ययः। 'गतिकारकोपपदात् कृत्' (पा ६,२,१३९) इति उत्तरपदप्रकृतिस्वरत्वम् । तम् उक्तलक्षणम् आत्मानं विषयीकृत्य सर्वा सर्वाणि [भुवना] भुवनानि भूतजातानि । उभयत्र 'शेश्छन्दसि' (पा ६,१,७० ) इति शेर्लोपः। संप्रश्नम् । किंविधोऽयम् आत्मा इति संभूय क्रियमाणः प्रश्नः संप्रश्नः। तं यन्ति प्राप्नुवन्ति । 'यतो वाचो निवर्तन्ते' (तैआ ८,९,१ ) इत्यादिश्रुत्या परतत्त्वस्य अवाङ्मनसगोचरत्वात् तत्स्वरूपं निश्चेतुम् असमर्थाः सन्तो जिज्ञासवः किम् अयम् आत्मा ज्ञानादिगुणकः उत निर्गुणः, परिच्छिन्नः अपरिच्छिन्नो वा, जगतः किं निमित्तकारणमेव उत उपादानकारणमपि इत्येवमादिसंशयम् आपद्यन्त इत्यर्थः । अथवा संप्रश्नम् । क्रियाविशेषणम् एतत् । संगतः प्रश्नः संप्रश्नः। तत्पूर्वकं गुरुशास्त्रोपदेशतस्तमेव परमात्मानं यन्ति । तदैक्यं लभन्त इत्यर्थः। 'ब्रह्मैव सन् ब्रह्माप्येति' (तैआ २,३,२), 'ब्रह्मविद् आप्नोति परम्' (तैआ ८,१,१), 'ब्रह्म वेद ब्रह्मैव भवति' (मुंउ ३,२,९) इत्यादिश्रुतिभ्यः। विश्वं कृत्स्नं जगत् कर्म कर्तव्यं यस्येति व्युत्पत्त्या विश्वकर्मशब्देन परमात्मैवोच्यते इति वैश्वकर्मणहोमेऽपि अस्या ऋचो विनियोग उपपन्नः। संप्रश्न इति । प्रच्छ ज्ञीप्सायाम् इत्यस्मात् संपूर्वात् 'यजयाच' (पा ३,३,९०) इत्यादिना नङ्। 'प्रश्ने चासन्नकाले' (पा ३,२,११७ ) इति निपातनात् संप्रसारणाभावः। कृदुत्तरपदप्रकृतिस्वरत्वम् । यन्तीति । इण् गतौ । 'इणो यण्' (पा ६,४,८१) इति यणादेशः।
परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य ।
वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥
परि । द्यावापृथिवी इति । सद्यः । आयम् । उप । आऽतिष्ठे । प्रथमऽजाम् । ऋतस्य ।
वाचम्ऽइव । वक्तरि । भुवनेऽस्थाः । धास्युः । एषः । ननु । एषः । अग्निः ॥ ४ ॥
ज्ञानोत्तरकालं तत्त्वविद् ब्रूते--द्यावापृथिवी द्यौश्च पृथिवी च द्यावापृथिव्यौ। ‘दिवसश्च पृथिव्याम्" (पा ६,३,३०) इति द्यावादेशः आद्युदात्तः । वा छन्दसि' (पा ६,१,१०६) इति पूर्वसवर्णदीर्घः । 'देवताद्वन्द्वे च' (पा ६,२,१४१ ) इत्युभयपदप्रकृतिस्वरत्वम् । तदुपलक्षितं कृत्स्नं जगत् सद्यः तदानीं तत्त्वज्ञानसमकालमेव पर्यायम् परितः प्राप्तवान् अस्मि । स्वाभेदेन अवगतस्य ब्रह्मणः सर्वात्मकत्वाद् इति भावः। तथा च श्रुत्यन्तरे--'अहं मनुरभवं सूर्यश्च' (ऋ ४,२६,१) इति । इण् गतौ । लङि उत्तमैकवचने गुणायादेशयोः आडागमः । ऋतस्य सत्यस्य सत्याद् ब्रह्मणः। संबन्धसामान्ये षष्ठी । प्रथमजाः भूतभौतिकप्रपञ्चजातात् पूर्वम् उत्पन्नः सूत्रात्मा। श्रूयते हि--'हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्' ( ऋ १०,१२१,१) इति । उपातिष्ठेत् । स यथा समष्टिरूपेण कृत्स्नं जगद् व्याप्य अवतिष्ठते तद्वद् अहम् अस्मीत्यर्थः । प्रथमं जायत इति प्रथमजाः । जनी प्रादुर्भावे इत्यस्मात् 'जनसनखनक्रमगमो विट्' (पा ३,२,६७ ) । 'विड्वनोरनुनासिकस्यात्' (पा ६,४,४१) इति आत्त्वम् । सद्यःप्राप्तिं दृष्टान्तेन उपपादयति – वाचमिवेति । वक्तरि प्रयोक्तरि स्थितां वाचं निकटस्थिता बोद्धारो यथा प्रयोगसमकाल एव अवगच्छन्ति तथेत्यर्थः। यद्वा ज्ञानिना प्राप्यस्य तत्त्वस्य सर्वात्मकताम् आह--वाचमिवेति । प्रथमार्थे द्वितीया । 'सुपां सुपो भवन्तीति वक्तव्यम् ( पावा ७,१,३९ ) इति वचनात् । वाक् रवात्मकं विततं शब्दब्रह्म वक्तरि पुरुष परिच्छिन्नं सत् यथा आविर्भवति । यथाहुराचार्याः--
'स रवः श्रुतिसंपन्नैः शब्दब्रह्मेति कथ्यते ।
स तु सर्वत्र संस्यूतो जाते भूताकरे पुनः ॥
आविर्भवति देहेषु प्राणिनाम् अर्थविस्तृतः । इति ।
एवं परमात्मा भुवनेष्ठाः । मायातकार्यात्मके भुवने भूतजाते तिष्ठति उपहितः सन् वर्तत इति भुवनेष्ठाः। तिष्ठतेर्विचि ‘तत्पुरुषे कृति बहुलम्' (पा ६,३,१४ ) इति सप्तम्या अलुक् । सुषामादित्वात् षत्वम् । एष परमात्मा धास्युः पोषणेच्छावान् । हेतुगर्भविशेषणम् एतत् । पोषणाद्धेतोस्तत्रतत्र भूतेषु वर्तत इत्यर्थः । डुधाञ् धारणपोषणयोः इत्यस्मात् 'सर्वधातुभ्योऽसुन्' ( पाउ ४,१८९) इति भावे असुन्प्रत्यये धा इति रूपम् । धाः धारणं पोषणं जगत इच्छतीति 'छन्दसि परेच्छायामपि' ( पावा ३,१,८ ) इति क्यच् । 'क्याच्छन्दसि' (पा ६,२,१७०) इति उप्रत्ययः। यद्वा धासिरित्यन्ननाम (निघ २,७)। तदुपलक्षितं भोग्यजातम् आत्मन इच्छतीति धास्युः। धाञ औणादिकः सिप्रत्ययः । ततः क्यचि अन्त्यलोपश्छान्दसः । निष्क्रियस्य सतः कथं पोषकत्वं भोक्तृत्वं चेति तत्राह--नन्वेषो अग्निरिति । एष परमात्मा अग्निर्ननु वैश्वानरात्मना पोषको भोक्ता खलु । श्रूयते हि वाजसनेयके-- 'एतावद् वा इदम् *[ सर्वम्] अन्नं चैवान्नादश्च सोम एवान्नम् अग्निरन्नादः' (माश १४, ४, २, १३ ) इति । भगवताप्युक्तम् --
'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥' ( भगी १५,१४ ) इति ।
परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् ।
यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥
परि। विश्वा । भुवनानि । आयम् । ऋतस्य । तन्तुम् । विऽततम् । दृशे । कम् ।
यत्र । देवाः । अमृतम् । आनशानाः। समाने । योनौ । अधि । ऐरयन्त ॥५॥
विश्वा विश्वानि भुवनानि पृथिव्यादीन् कर्मफलभूतान् लोकान् पर्यायम् ज्ञानोत्पत्तेः प्राक् खलु परितः प्राप्नवम् । परितो गमनस्य प्रयोजनम् आह--ऋतस्य सत्यस्य ब्रह्मणः तन्तुम् पटस्य तन्तुवत् जगतः कारणभूतं विततम् व्याप्तं स्वरूपं दृशे द्रष्टुम् । पर्यायम् इति संबन्धः । कम् इति पदपूरणः । तथा च यास्कः--'पदपूरणास्ते मिताक्षरेष्वनर्थकाः । कमीमिद्विति' (नि १,९) इति । यद्वा ऋतस्य पुण्यापुण्यलक्षणकर्मणः कारणभूतं तन्तुम् तन्तुवद् बन्धनहेतुं मूलज्ञानं विततम् अनादित्वेन विस्तीर्णम् । 'ऋतस्य तन्तुं विततं विचृत्य' (तैआ १०,१,४) इति श्रुत्यन्तराद् अत्रापि छित्त्वेत्यध्याहारः । कम् सुखात्मकं ब्रह्म । 'कं ब्रह्म खं ब्रह्म' (छाउ ४,१०,५) इति श्रुतेः। दृशे द्रष्टुं पर्यायम् इति योजना । 'दृशे विख्ये च' (पा ३,४,११) इति दृशेस्तुमर्थे केप्रत्ययान्तो निपातितः । द्रष्टव्यं ब्रह्मैव विशिनष्टि--यत्र देवा इत्यर्धर्चेन । यत्र यस्मिन् ब्रह्मणि देवाः इन्द्राद्या अमृतम् अविनश्वरं परमानन्दम् आनशानाः अश्नुवानाः प्राप्नुवन्तः समाने योनौ एकस्मिन्नेव कारणभूते ब्रह्मणि । अधिः सप्तम्यर्थानुवादी आधिक्यार्थो वा। ऐरयन्त स्वात्मानम् अगमयन् । तदेकीभूता इत्यर्थः । अथवा तत्त्ववित् स्वानुभवम् आविष्करोति । यत्र ब्रह्मणि मनोवृत्तिभिः साक्षात्कृते अमृतम् अनश्वरनिरतिशयानन्दम् आनशानाः प्राप्नुवन्तो देवा इन्द्रियाणि समाने योनौ साधारणे कारणभूते ब्रह्मणि अध्यैरयन्त प्राप्नुवन्ति । लीना भवन्तीत्यर्थः । अर्थद्वयेपि तद् ब्रह्म द्रष्टुम् इति संबन्धः । आनशानाः। अश्नोतेश्छान्दसे लिटि 'लिटः कानज्वा' (पा ३,२,१०६) इति कानजादेशः । 'अश्नोतेश्च' (पा ७,४,७२) इति नुडागमः। 'चितः' (पा ६, १,१६३) इत्यन्तोदात्तत्वम् । इति द्वितीयकाण्डे प्रथमेऽनुवाके प्रथमं सूक्तम् ।