← सूक्तं २.१० | अथर्ववेदः - काण्डं २ सूक्तं २.११ शुक्रः. |
सूक्तं २.१२ → |
दे. कृत्यादूषणम्। १ चतुष्पदा विराट् गायत्री, २-५ त्रिपदा परोष्णिक्, ४ पिपीलिकामध्या निचृत्। |
दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥१॥
स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥२॥
प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
आप्नुहि श्रेयांसमति समं क्राम ॥३॥
सूरिरसि वर्चोधा असि तनूपानोऽसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥४॥
शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥५॥
सायणभाष्यम्
तृतीयेऽनुवाके सप्त सूक्तानि । तत्र ‘दूष्या दूषिरसि' इति प्रथमं सूक्तम् । स्त्रीशूद्रराजब्राह्मणकापालिकान्त्यजशाकिन्यादिकृताभिचारे स्वात्मरक्षार्थम् कृत्याप्रतिहरणार्थं च अनेन सूक्तेन तिलकमणिं संपात्य अभिमन्त्र्य बध्नीयात् ।
तथा च सूत्रम् -- 'दूष्या दूषिरसि' इति स्राक्त्यं बध्नाति” (कौसू ३९,१) इति । स्रक्तिस्तिलकवृक्ष[ :। स्रक्ति] स्तिलक इति भाष्यकारः? ।
तथा अस्य सूक्तस्य कृत्याप्रतिहरणगणे पाठात् कृत्यानिर्हरणार्थे शान्त्युदकेऽपि एतत् सूक्तम् आवपनीयम्। यद् आह कौशिकः-- “ 'दूष्या दूषिरसि' (अ२,११) 'ये पुरस्तात्' (अ ४,४०) 'ईशानां त्वा' ( अ ४,१७ ) 'समं ज्योतिः' (अ ४,१८) 'उतो अस्यबन्धुकृत्' (अ ४,१९) 'सुपर्णस्त्वा' (अ ५, १४), 'यां ते चक्रुः' ( अ ५,३१ ), 'अयं प्रतिसरः' (अ ८,५), 'यां कल्पयन्ति' (अ १०,१) इति महाशान्तिम् आवपते' ( कौसू ३९,७ ) इति । अयमेव कृत्याप्रतिहरणगणः ।
तथा शान्तिकल्पे 'कृत्यादूषण एव च । चातनो मातृनामा च' (शाक २३,१ ) इत्यत्र, शान्तिकल्पे 'अथ शान्तैः कृत्यादूषणैश्चातनैः' (शाक १६ [?]) इत्यत्र च अस्य सूक्तस्य गणप्रयुक्तो विनियोगोऽवगन्तव्यः।
एवं 'बार्हस्पत्यां राज्यश्रीब्रह्मवर्चसकामस्याभिचरतोऽभिचर्यमाणस्य च' ( शाक १७,१ ) इति विहितायां बार्हस्पत्याख्यायां महाशान्तौ स्राक्त्यमणिबन्धनेऽपि एतत् सूक्तम् । तद् उक्तं शान्तिकल्पे -– “बार्हस्पत्यायां ‘दूष्या दूषिरसि' इति स्राक्त्यम् अभिचरतोऽभिचर्यमाणस्य च" (शाक १९,२) इति।
कृत्याप्रतिहरणकर्मण्येव आद्ययर्चा कृत्याया गुल्फं सूत्रोक्तद्रव्येण परिषिञ्चेत् । सूत्रं च -- "'दूष्या दूषिरसि' इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान् परिषिञ्चति" (कौसू ३९,१३ ) इति ।
दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥१॥
दूष्याः । दूषिः । असि । हेत्याः । हेतिः । असि । मेन्याः । मेनिः । असि ।
आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥ १ ॥
हे तिलकमणे त्वं दूष्याः। दूषयति विनाशयतीति दूषिः कृत्या । दुषेर्ण्यन्ताद् औणादिक इप्रत्ययः । तस्याः परकृतायाः दूषिरसि दूषकः निवारकोऽसि । हेत्याः । आयुधनामैतत् । हन्ति अनयेति प्रहीयते प्रक्षिप्यत इति वा हेतिः आयुधम् । 'ऊतियूतिजूतिसातिहेतिकीर्तयश्च' ( पा ३,३,९७ ) इति हन्तेर्हिनोतेर्वा क्तिन्प्रत्ययान्तो निपातितः। तस्याः परप्रेरितायास्त्वं हेतिः प्रतिहननसाधनम् असि । मेन्याः। वज्रनामैतत् । मीनाति हिनस्तीति मेनिः मर्मभेदि मन्त्रात्मकं वाग्वज्रम् । तस्य परोच्चारितस्य मेनिरसि निवारकः प्रतिवाग्वज्रोसि । मीञ् हिंसायाम् इत्यस्माद् औणादिको निप्रत्ययः । यद्यपि हेतिमेनी द्वे अपि आयुधनामनी तथापि अत्र समन्त्रकामन्त्रकास्त्रशस्त्रभेदेन तयोर्भेदोऽवगन्तव्यः । यतस्त्वं शत्रुकृताभिचारादिजनितसर्वारिष्टनिवारकोऽसि अतः श्रेयांसम् प्रशस्यतमम् अधिकबलम् अस्मदीयं शत्रुम् आप्नुहि हन्तुं व्याप्नुहि । निरुध्य तं जहीत्यर्थः । समम् समबलं शत्रुम् अति क्राम अतिक्रम्य गच्छ । अप्रयत्नेन निवारयेत्यर्थः । न्यूनबलस्तु मन्त्रप्रभावम् अन्तरेण स्वेनैव जित इति तस्य अनुपन्यासः। तथा च तैत्तिरीयके समाम्नातम् - 'प्र श्रेयांसं भ्रातृव्यं नुदतेऽति सदृशं क्रामति नैनं पापीयान् आप्नोति' (तै २,४,१,४ ) इति । क्रामेति । क्रमु पादविक्षेपे । अस्मात् लोटि शपि 'क्रमः परस्मैपदेषु' (पा ७,३,७६ ) इति दीर्घः।
स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥२॥
स्रक्त्यः । असि । प्रतिऽसरः । असि । प्रतिअऽभिचरणः । असि ।
आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥ २ ॥
हे मणे स्रक्त्यः । स्रक्तिस्तिलकवृक्षः तत्र भवः स्रक्त्यः । 'भवे छन्दसि' ( पा ४,४, ११०) इति यत्। तिलकवृक्षनिर्मितोऽसि । प्रतिसरः । हन्तुम् अभिमुखाः कृत्यादयः प्रतिसार्यन्ते प्रतिमुखं निवर्त्यन्ते अनेन इति प्रतिसरः। अभिमन्त्रितं रक्षासूत्रम् असि । प्रतिपूर्वात् सारयतेः पुंसि संज्ञायां घः। उपधाह्रस्वश्छान्दसः । अत एव महाशान्तिषु मणिबन्धनस्थाने प्रतिसरबन्धनम् उक्तं शान्तिकल्पे-- 'प्रतिसरं वा सर्वत्र' (शाक १९,८ ) इति । प्रत्यभिचरणः प्रत्यभिचर्यते निवार्यते परकृताभिचारजनिता कृत्या अनेन इति प्रत्यभिचरणः । तथाविधोऽसि । आप्नुहीत्यादि व्याख्यातम् ।
प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
आप्नुहि श्रेयांसमति समं क्राम ॥३॥
प्रति । तम् । अभि । चर । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः ।
आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥ ३ ॥
यः शत्रुः अस्मान् सपुत्रपशुबान्धवान् द्वेष्टि जिघांसति वयं च यम् शत्रुं द्विष्मः नाशयितुम् इच्छामः। द्विष अप्रीतौ । अदादित्वात् शपो लुक् । तम् उभयविधं द्वेष्टारं द्वेष्यं च शत्रुं हे मणे प्रत्यभि चर शत्रुकृतां कृत्यां प्रतिनिवर्त्य तमपि नाशयेत्यर्थः । आप्नुहीत्यादि गतम्।
सूरिरसि वर्चोधा असि तनूपानोऽसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥४॥
सूरिः । असि । वर्चःऽधाः । असि । तनूपानः । असि ।
आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥ ४ ॥
हे मणे सूरिः अभिज्ञोऽसि । शत्रुकृताभिचारनिवर्तनज्ञानवान् असीत्यर्थः । वर्चोधाः वर्चसः तेजसो धाता विधाता असि धारयितॄणाम् । तथा तनूपानोसि तनूनाम् अस्मत्संबन्धिनां शरीराणां परकृताभिचारात् पालयितासि । आप्नुहीत्यादि पूर्ववत् ।
शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥५॥
शुक्रः । असि । भ्राजः । असि । स्वः । असि । ज्योतिः । असि ।
आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥ ५ ॥
हे मणे शुक्रः शोचकः शत्रूणां शोचयिताऽसि । भ्राजोसि दीप्यमानः तेजस्वी भवसि । स्वः ज्वरादिरोगोत्पादनेन तापकोऽसि । स्वृ शब्दोपतापयोः। अस्मात् छान्दसो विच् । यद्वा स्वः। दिवश्च आदित्यस्य च साधारणं नामैतत् । आदित्योऽसि आदित्यवत् कृत्यादीनाम् अभिभविता असि भवसि । तथा ज्योतिः अग्न्यादिज्योतिरिव असंस्पृश्योऽसि । शत्रुकृताभिचारादिभिः अनाधर्षणीयोऽसीत्यर्थः । आप्नुहीत्यादि व्याख्यातम् ।
इति द्वितीयकाण्डे तृतीयेऽनुवाके प्रथमं सूक्तम् ॥