← सूक्तं २.३४ अथर्ववेदः - काण्डं २
सूक्तं २.३५
ऋ. अङ्गिराः।
सूक्तं २.३६ →
दे. विश्वकर्मा। त्रिष्टुप्, १ बृहतीगर्भा, ४-५ भुरिक्।

ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।
या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥१॥
यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् ।
मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥२॥
अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः ।
यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥
घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् ।
बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥
यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥


सायणभाष्यम्

'ये भक्षयन्तः' इति सूक्तेन बहुजनमध्ये भुञ्जानो दृष्टिदोषनिवारणाय अन्नम् "अभिमन्त्र्य भुञ्जीत । अत्र सूत्रम्--" 'ये भक्षयन्तः' इति परिषद्येकभक्तम् अन्वीक्षमाणो भुङ्क्ते" ( कौसू ३८,२२) इति।

तथा सर्वलोकाधिपत्यकामः इन्द्राग्न्योर्यागम् उपस्थानम् अन्नदानं वा अनेन सूक्तेन कुर्यात् । सूत्रं तु पूर्वसूक्त एवोदाहृतम् ।

तथा सर्वेषु सवयज्ञेषु अनेन सूक्तेन पुरस्ताद्धोमान् जुहुयात् । सूत्रितं हि--" 'य ईशे' ( अ २,३४ ), 'ये भक्षयन्तः' ( अ २,३५) इति प्रक्रम्य “प्रथमम् । पशूपाकरण उत्तरेण । सवपुरस्ताद्धोमान् ” ( कौसू ५९,२१; २४ ) इति ।

साकमेधाख्यपर्वणि 'ये भक्षयन्तः' इत्यनेन वैश्वकर्मणयागानुमन्त्रणं कुर्यात् । उक्तं वैताने-- 'कार्तिक्यां साकमेधाः' इति प्रक्रम्य “वैश्वकर्मणं 'ये भक्षयन्तः' इति" (वैताश्रौ ९,७ ) इति ।

तथा अग्निचयने वैश्वकर्मणहोमानुमन्त्रणे अस्य विनियोगः । उक्तं वैताने--" 'ये भक्षयन्तः' ( अ २,३५), 'एतं सधस्थाः ' (अ ६,१२३) इति द्वे 'येना सहस्रम्' (अ ९,५,१७ ) इति वैश्वकर्मणहोमान्' (वैताश्रौ २९,२३ ) इति ।

'यज्ञस्य चक्षुः' इत्येषा दर्शपूर्णमासयोः पुरस्ताद्धोमे विनियुक्ता । “ 'अग्नावग्निः' (अ ४,३९,९), 'हृदा पूतम्' (अ ४,३९,१० ), 'पुरस्ताद् युक्तः' ( अ ५,२९.१ ), 'यज्ञस्य चक्षुः' (अ २,३५,५) इति जुहोति” ( कौसू ३,१६ ) इत्यादिसूत्रात् ।


ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।

या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥१॥

ये। भक्षयन्तः । न । वसूनि । आनृधुः। यान् । अग्नयः । अनुऽअतप्यन्त । धिष्ण्याः ।

या। तेषाम् । अवऽयाः । दुःऽइष्टिः । सुऽइष्टिम् । नः । ताम् । कृणवत् । विश्वऽकर्मा ॥१॥

ये वयं भक्षयन्तो न भक्षयन्त इव अदन्त इव वसूनि धनानि आनृधुः । पुरुषव्यत्ययः। वर्धितवन्तः स्मः । यद्वा न भक्षयन्तः नादन्तः अपितु पृथिव्यां धनानि निक्षिप्तवन्तः। यद्वा वसूनि भक्षयन्तः अयागार्थेन व्ययेन नाशयन्तः नानृधुः समृद्धा नाभूम । ऋधु वृद्धौ। अस्मात् लिटि द्विर्वचने 'अत आदेः' (पा ७,४,७०) इत्यभ्यासदीर्घत्वे 'तस्मान्नुड् द्विहलः' (पा ७,४,७१) इत्यत्र ऋकारैकदेशस्य रेफस्य हल्ग्रहणेन ग्रहणाद् द्विहल्त्वेन नुडागमः । धिष्ण्याः धिष्ण्येषु स्थानेषु स्थिता अग्नयः आहवनीयाद्याः यान् उद्दिश्य अन्वतप्यन्त अस्मद्विषयम् अनुतापं धृतवन्तः। यागादौ दक्षिणाद्यप्रदानेन यागवैकल्यात् तेषां धनवतां जन्म व्यर्थम् अहो शोच्या एत इति । एवम् अयष्टारो दुर्यष्टारश्च । तेषाम् द्विविधानाम् अस्माकं या अवयाः अवयजनं यागाननुष्टानं दुरिष्टिः दुर्यागश्चास्ति ताम् अनिष्टिदुरिष्टिदोषपरिहारार्थं कृतां स्विष्टिम् शोभनाम् इष्टिं नः अस्माकं कृणवत् करोतु विश्वकर्मा विश्वकृद् देवः । अनिष्टिदुरिष्टिनिवारणसामर्थ्यं शोभनत्वम् इष्टेः । अवया इति । 'अवे यजः' (पा ३,२,७२) इति ण्विनि कृते 'अवयाः श्वेतवाः' (पा ८,२,६७ ) इति निपातितः । दुरिष्टिरिति । प्रत्ययान्तविशेषणत्वे दुरो गतित्वाभावाद् अव्ययपूर्वपदप्रकृतिस्वरत्वम् । धात्वर्थविशेषणत्वे गतित्वात् 'तादौ च निति०' (पा ६,२,५०) इति प्रकृतिस्वरत्वम् । स्विष्टिशब्देप्येवम् । सोः प्रकृतिस्वरत्वे 'उदात्तस्वरितयोर्यणः' (पा ८,२,४) इति संहितायां ततः पर इकारः स्वर्यते ।


यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् ।

मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥२॥

यज्ञऽपतिम् । ऋषयः । एनसा । आहुः । निःऽभक्तम् । प्रजाः । अनुऽतप्यमानम् ।

मथव्यान् । स्तोकान् । अप। यान् । रराध । सम्। नः। तेभिः । सृजतु । विश्वऽकर्मा ॥२॥

ऋषयः अतीन्द्रियार्थदर्शिनः यज्ञपतिम् यजमानम् एनसा। इत्थंभावे तृतीया । युक्तम् एनस्विनम् आहुः । कथंभूतम् । निर्भक्तम् निर्भागं दौर्गत्ययुक्तम् प्रजाः अस्य यागवैकल्यनिमित्तेन एनसा परितप्यमानाः प्रजा अनु स्वयं तप्यमानम् एवंभूतं यज्ञपतिम् एनसा युक्तम् आहुः । किञ्च मधव्यान् । मधुरसः सोमो मधुः। तद्विकारभूतान् यान् स्तोकान् बिन्दून् अप रराध अपराद्धवान् । अन्तरितान् कृतवान् इत्यर्थः। तेभिस्तैः स्तोकैः नः अस्मदीयं यज्ञपतिं सं सृजतु संयोजयतु विश्वकर्मा विश्वं कर्म करणीयं यस्य स प्रजापतिः । यज्ञपतिम् । 'पत्यावैश्वर्ये' (पा ६,२,१८) इति पूर्वपदप्रकृतिस्वरत्वम् । मधव्यान् इति । 'मये च' । 'मधोः' (पा ४,४,१३८; १३९ ) इति विकारे यत्प्रत्ययः।


अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः ।

यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥

अदान्यान् । सोमऽपान् । मन्यमानः । यज्ञस्य । विद्वान् । सम्ऽअये । न । धीरः।

यत् । एनः । चकृऽवान् । बद्धः । एषः । तम् । विश्वऽकर्मन् । प्र । मुञ्च । स्वस्तये ॥ ३ ॥

यज्ञस्य वैदिकस्य क्रियाकलापस्य । ‘क्रियाग्रहणं कर्तव्यम्' ( पावा १,४,३२) इति कर्मणः संप्रदानत्वात चतुर्थ्यर्थे षष्ठी। यज्ञम विद्वान् जानन् । यद्वा यज्ञस्य स्वरूपं विद्वान् अहमेव विद्वानिति विद्यामदेन मोहितः सोमपान् । 'गापोष्टक्' (पा ३,२,८ ) इति टक् । स्वव्यतिरिक्तान् कृतसोमयागान् पण्डितानपि अदान्यान् अज्ञत्वारोपेण दानानर्हान् मन्यमानः । 'छन्दसि च' (पा ५,१,६७ ) इति यः। तत्र दृष्टान्तः -- समये न धीरः समयन्ति संगच्छन्ते योद्धारोऽत्रेति समयः संग्रामः तत्र धीर इव । स यथा स्वभुजबलाभिमानेन प्रतिभटान् तिरस्कार्यान् मनुते एवम् अहंकारेण बद्ध एषः यद् एनश्चकृवान् तिरस्कारलक्षणं यत् पापं कृतवान् । करोतेर्लिटः क्वसुः। हे विश्वकर्मन् देव तम् एनोयुक्तं स्वस्तये अविनाशाय प्र मुञ्च तस्मात् पापात् प्रमोचय ।


घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् ।

बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥

घोराः । ऋषयः । नमः । अस्तु । एभ्यः । चक्षुः । यत् । एषाम् । मनसः । च । सत्यम् ।

बृहस्पतये । महिष । द्युऽमत् । नमः । विश्वऽकर्मन् । नमः । ते । पाहि । अस्मान् ॥ ४ ॥

ये घोराः क्रूरा ऋषयः प्राणाश्चक्षुराद्याः । श्रूयते हि-- 'के ते ऋषय इति । प्राणा वा ऋषयः' (बृउ २,२,३) इति । एभ्यः प्राणेभ्यो नमोऽस्तु । एषां प्राणानां मनसः अन्तःकरणस्य च मध्ये यत् सत्यम् यथार्थदर्शि चक्षुः तस्मा अपि नमोऽस्तु । अत्र ऋषिशब्देन सामान्येन उपात्तस्यापि चक्षुषः पृथग् उपदेशः प्राधान्यद्योतनाय । अत एव दृष्टिदोषनिवारणकर्मणि अस्य विनियोग उपपन्नः। तथा बृहस्पतये बृहतां देवानां पत्ये देवाय महि महत् प्रभूतं सत् शोभनं द्युमत् दीप्तिमत् । अनेन विशेषणत्रयेण करणत्रयस्यापि तदेकतानत्वम् उक्तम् । उक्तलक्षणं नमोऽस्तु । तथा हे विश्वकर्मन् ते तुभ्यं नमोऽस्तु । क्रूरचक्षुर्जन्यदोषादिपरिहारेण अस्मान् पाहि पालय । यद्वा नम इत्यन्ननाम । भुज्यमानम् अन्नम् इन्द्रियाधिष्ठातृदेवेभ्योऽस्तु । बृहताम् उक्तानाम् इन्द्रियाणां पतिः पालको नियन्ता अन्तरात्मा बृहस्पतिः। तस्मै महत्त्वाद्युक्तगुणविशिष्टं नमोऽस्तु । तथा हे विश्वकर्मन् विश्वं कर्म करणीयं यस्य स तादृग्रूप परमात्मन् ते नमोऽस्तु । अनेन बहुजनदृष्ट्युपहतस्यापि अन्नस्य उक्तप्रकारेण देवतार्थत्वाद् भोक्तुस्तद्भोजननिमित्तदृष्टिदोषादिकं न भवतीत्यर्थः।


यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।

इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥

यज्ञस्य । चक्षुः । प्रऽभृतिः । मुखम् । च । वाचा । श्रोत्रेण । मनसा । जुहोमि ।

इमम् । यज्ञम् । विऽततम् । विश्वऽकर्मणा । आ । देवाः । यन्तु । सुऽमनस्यमानाः ॥ ५॥

यज्ञस्य यागस्य चक्षुः चक्षुरिन्द्रियवत् प्रदर्शकः । तदधीनत्वाद् यज्ञसिद्धेः । यद्धा यज्ञाधिदेवतायाश्चक्षुरिन्द्रियम् अयम् अग्निः। तथा च मन्त्रवर्णः-– 'अग्निना यज्ञश्चक्षुष्मान्' (आपश्रौ ४,९,११) इति । तथा प्रभृतिः यज्ञस्य आदिभूतः । अग्निस्थापनपूर्वकत्वात् सर्वयज्ञानाम् । मुखं च आस्यमपि अग्निरेव । तथा च दाशतय्याम् आम्नायते-- 'त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे' (ऋ २,१,१३) इति । यद्वा मुखम् मुखमिव मुख्यः सर्वदेवतानां प्रयाजादिषु प्रथमयष्टव्यत्वात् । 'अग्निर्मुखं प्रथमो देवतानाम्' (ऐब्रा १,४) इत्यादिश्रुतेः। यद्वा आज्यम् उच्यते यज्ञस्य चक्षुः। चक्षुःसंस्तुताज्यभागनिष्पादकत्वात् । प्रभृतिः आदिभूतं प्रथमं हूयमानत्वात् । मुखं च मुखवत् प्रधानभूतं मुख्यद्रव्यम् । 'तं देवा अब्रुवन् । एष वाव यज्ञो यद् आज्यमप्येव नोऽत्रास्तु' (तै २,६,३,१) इत्यादिश्रुतेः । एवंलक्षणम् आज्यं वाचा मन्त्रेण श्रोत्रेण श्रोत्रवता । मत्वर्थीयः अकारः। उपलक्षणम् एतत् सर्वेन्द्रियाणाम् । अनन्यव्यापारश्रोत्रादियुक्तेन मनसा अन्तःकरणेन यष्टव्यदेवतां ध्यायन् जुहोमि अग्नौ प्रक्षिपामि । 'यस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेद् वषट्करिष्यन्' (ऐब्रा ३,८) इति श्रुतेः । अग्निपक्षे उक्तगुणविशिष्टम् अग्निम् उद्दिश्य जुहोमि । आज्यम् इति सामर्थ्यात् लभ्यते । ततः विश्वकर्मणा देवेन विततम् विस्तृतम् उत्पादितम् इमम् अनुष्ठीयमानं यज्ञं देवा इन्द्राद्या यष्टव्यदेवताः सुमनस्यमानाः सुमनस इव आचरन्तः अनुग्रहबुद्ध्युपेताः सन्तः आ यन्तु आगच्छन्तु। सुमनःशब्दात् 'कर्तुः क्यङ् सलोपश्च' (पा ३,१,११) इति क्यङ् । तत्र वाग्रहणस्य अनुवृत्तस्य सलोपेन अभिसंबन्धात् तस्य च व्यवस्थितविभाषात्वाद् अत्र सलोपाभावः।

इति षष्ठेऽनुवाके चतुर्थं सूक्तम् ।