← अथर्ववेदः/काण्डं ३ अथर्ववेदः - काण्डं ३
सूक्तं ३.१
अथर्वा
सूक्तं ३.०२ →
दे. सेनामोहनम्, १ अग्निः, २ मरुतः, ३-६ इन्द्रः। त्रिष्टुप्, .....

अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।
स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।
अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥२॥
अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि ।
युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥३॥
प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।
जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥४॥
इन्द्र सेनां मोहयामित्राणाम् ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥
इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।
चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥६॥


सायणभाष्यम्

अथ तृतीयं काण्डम्

श्रीगणाधिपतये नमः।

यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । . निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १॥

तृतीयकाण्डे षडनुवाकाः । तत्र प्रथमेऽनुवाके पञ्च सूक्तानि । तत्र 'अग्निर्णः शत्रून्' इति प्रथमं सूक्तम । तस्य परसेनामोहनकर्मणि फलीकरणमिश्रितस्य वा कणिकिकामिश्रितस्य वा ओदनपिण्डस्य सांग्रामिकाग्नौ उलूखलेन होमे विनियोगः ।

तथा अस्मिन्नेव कर्मणि एकविंशतिं शर्कराः शूर्पे कृत्वा परसेनां प्रति निष्पुनीयात् ।

तथैव अप्वाख्यायै देवतायै अनेन सूक्तेन चरुं जुहुयात् ।

तद् उक्तं कौशिकेन -– “ 'अग्निर्नः शत्रून्' (अ ३,१), 'अग्निर्नो दूतः' ( अ ३,२ ) इति मोहनानि । ओदनेनोपयम्य फलीकरणान् उलूखलेन जुहोति एवमणून् । एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति। अप्वां यजते ( कौसू १४,१७-२१) इति।


अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।

स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥

अग्निः । नः । शत्रून् । प्रति । एतु । विद्वान् । प्रतिऽदहन् । अभिऽशस्तिम् । अरातिम् ।

सः । सेनाम् । मोहयतु । परेषाम् । निःऽहस्तान् । च । कृणवत् । जातऽवेदाः ॥ १॥

अङ्गति गच्छति सर्वं व्याप्नोतीति अग्निः ।अगिर्गत्यर्थः अस्माद् 'अङ्गेर्नलोपश्च' (पाउ ४.५०) इति निप्रत्ययः। 'नेड्वशि कृति' (पा ७,२,८) इति इट्प्रतिषेधः। नैरुक्तास्तु अग्निशाब्दम् अक्षरसाम्यने बहुधा व्युत्पादयन्ति । तथा हि--अग्निरग्रणीः सर्वदेवतानां प्राधानभूतः 'अग्निरग्रे प्रथमो देवतानाम्' (तैब्रा २,४,३,३ ) इति श्रुतेः । देवासुरसंग्रामे देवसेनाया अग्रे नयनाद् वा अग्रणीरग्निः । सेनानीरित्यर्थः । 'अग्निर्देवानां सेनानीः' (तु. माश ५,३,१,१) इति हि ब्राह्मणम् । यद्वा अग्रं प्रथमं यज्ञेषु कर्तव्येषु तादर्थ्येन प्रणीयत इत्यग्निः । सर्वत्र अग्रशब्दोपपदान्नयतेः ‘सत्सूद्विष' (पा ३,२,६१ ) इत्यादिना कर्तरि कर्मणि वा क्विप् । पृषोदरादित्वाद् (पा ६, ३,१०८) रूपसिद्धिः । यद्वा अङ्गं शत्रुसेनारूपं नयति दाहेन आत्मसात् करोति इति वा अग्निः । अङ्गशब्दोपपदान्नयतेर्नमतेर्वा रूपसिद्धिः। अथवा न क्नोपयति स्वसंबद्धपदार्थजातम् अनार्द्रं करोतीति वा अग्निः । क्नूयी शब्दे उन्दे च । अस्मान्नञ्पूर्वाद् रूपम् । अपि वा अयनेन आहवनीयादिस्थानगमनेन' अभिव्यक्तः प्रज्वलितः नयति हवींषि देवान् प्रापयतीति । अयनेन हविषः स्वात्मप्राप्तिमात्रेण तद्धविर्दग्धं कुर्वन देवान् नयतीति वा अग्निः । अस्मिन् पक्षे एतेः अञ्जेर्दहतेर्वा नयतेश्च यथाक्रमम् अकारादींस्त्रीन् वर्णान् उद्धृत्य अग्निः शब्दो व्युत्पाद्यः। एतत् सर्वं यास्केनोक्तम् -- 'अग्निः कस्मात् । अग्रणीर्भवति । अग्रं यज्ञषु प्रणीयते । अङ्गं नयति संनममानः । अक्नोपनो भवतीति स्थौलाष्ठीविः । न क्नोपयति न स्नेहयति । त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिः । इतात् । अक्ताद् दग्धाद्वा । नीतात् । स खल्वेतेः अकारम् आदत्ते गकारम् अनक्तेर्वा दहतर्वा नी: परः ( नि ७,१४) इति । स च 'इन्द्रो मन्थतु' ( कौसू १६,९) इत्यादिसूत्रोक्तप्रकारेण मन्थनादिसंस्कारसंस्कृतः सेनाग्निरत्र विवक्षितः । सोयम् अग्निः विद्वान् जयोपायं जानन् नः अस्माकं शत्रून् शातयितॄन् द्वेष्यान् प्रत्येतु प्रतिमुखं गच्छतु । प्रतिमुखो भवतु इत्यर्थः। किं कुर्वन् । अभिशस्तिम् आभिमुख्येन अभितो वा हिंसकम् । शसु हिंसायाम् । अस्मात् कर्तरि क्तिच् । छान्दसं पूर्वपदप्रकृतिस्वरत्वम्। क्तिन्नन्तेन वा बहुव्रीहिः । अरातिम् । रातिर्दानम् तेन च श्रेयोमात्रम् उपलक्ष्यते। अस्मच्छ्रेयोविघातिनं शत्रुं प्रतिदहन् प्रातिकूल्येन प्रत्यङ्गं प्रतिपुरुषं वा भस्मसात् कुर्वन् । यद्वा प्रतिदहन इति ‘लक्षणहेत्वोः क्रियायाः' (पा ३,२,१२६ ) इति हेतौ शतृप्रत्ययः। प्रतिदहनाद्धेतोः शत्रून् प्रत्येतु इति संबन्धः। अपि च सः अग्निः परेषाम् शत्रूणाम् सेनाम् इनेन अधिपतिना सह वर्तमानां शत्रुहननाय संभूय गमनयुक्तां वा । यथाहुः--'सेना सेश्वरा समानगतिर्वा' (नि २,११) इति । तां चतुरङ्गबलरूपिणीं मोहयतु व्याकुलचित्तां करोतु । युद्धविषयकार्याकार्यविभागज्ञानशून्यां करोतु इत्यर्थः। मुह वैचित्त्ये । किञ्च जातवेदाः जातानां प्राणिनां वेदिता सर्वज्ञोऽयम् अग्निः शत्रून निर्हस्तान् हस्तव्यापारशून्यान् आयुधग्रहणासमर्थान् कृणवत् कुर्यात् । कृवि हिंसाकरणयोश्च । अस्मात् लिङर्थे लेटि अडागमः । 'धिन्विकृण्व्योर च' (पा ३,१,८०) इति उप्रत्ययः । तत्संनियोगेन अकारोन्तादेशः । तस्य स्थानिवद्भावात् लघूपधगुणाभावः । जातवेदा इति । 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च' ( पाउद ९,८७ ) इति असुन् पूर्वपदप्रकृतिस्वरत्वं च ।


यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।

अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥२॥

यूयम् । उग्राः । मरुतः । ईदृशे । स्थ । अभि । प्र । इत । मृणत । सहध्वम् ।

अर्ममृणन् । वसवः । नाथिताः । इमे । अग्निः । हि । एषाम् । दूतः। प्रतिऽएतु । विद्वान् ॥२॥

हे उग्राः उद्गूर्णबलाः हे मरुतः एतन्नामानो गणदेवाः यूयम् ईदृशे अप्रधृष्ये संग्रामलक्षणे कर्मणि स्थ मत्सहायाः सन्तः संनिहिता भवथ । ईदृशे इति । इदम्शब्दोपपदात् 'त्यदादिषु दृशोऽनालोचने कञ्च' (पा ३,२,६०) इति कञ्प्रत्ययः। 'इदंकिमोरीश्की' (पा ६,३,९०) इति इदम ईशादेशः। ततः अभि प्रेत आभिमुख्येन शत्रून् प्रहरणाय गच्छत । अनन्तरं 'मृणतः हिंसतः युध्यमानान् शत्रून् सहध्वम् अभिभवत । मृण हिंसायाम् । तुदादित्वात् शः। तथा इमे वसवः वस्वाख्या गणदेवा नाथिताः जयार्थं प्रार्थिताः सन्तः अमीमृणन् अस्माकम् शत्रून् अभिघातयन्तु । मृणतेर्ण्यन्ताच्छान्दसे लुङि चङि 'उर्ऋत्' , 'नित्यं छन्दसि' (पा ७,४,७;८) इति ऋदादेशः। हिशब्दः चार्थे । एषाम् वसूनां दूतः दूतवद् अग्रेसरः प्रधानभूतः। 'अग्निः प्रथमो वसुभिर्नो अव्यात्' (तै २,१,११,२) इति हि मन्त्रवर्णः । तथाविधः विद्वान् जानन् अग्निश्च प्रत्येतु शत्रून् प्रतिगच्छतु । यद्वा हि यस्माद् एषां वसूनां दूतः अनुचरः। 'अग्निं दूतं वृणीमहे' (ऋ १,१२,१) इत्यादिश्रुतेः । अतः सोपि तत्प्रेरितः प्रत्येतु इति ।


अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि ।

युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥३॥

अमित्रऽसेनाम् । मघऽवन् । अस्मान् । शत्रुऽयतीम् । अभि ।

युवम् । ताम् । इन्द्र । वृत्रऽहन् । अग्निः । च । दहतम् । प्रति ॥ ३ ॥

हे मघवन् धनवन्निन्द्र अस्मान् त्वत्परिचरणकर्तॄन् निरपराधानपि शत्रूयतीम् शत्रूनिव आचरन्तीम् अमित्रसेनाम् शत्रुसेनाम् अभि। गच्छेति योग्यक्रियाध्याहारः। शत्रूयतीम् इति । शत्रुशब्दात् 'उपमानादाचारे' (पा ३,१,१०) इति क्यच् । 'अकृत्सार्वधातुकयोः” ( पा ७,४,२५) इति दीर्घः । तदन्तात् शतरि ‘उगितश्च' (पा ४,१,६) इति ङीप । अनित्यम् आगमशासनम्' इति नुमभावः । ‘शतुरनुमः” (पा ६,१,१७३ ) इति ङीप उदात्तत्वम् । ननु शत्रूयतीम् इति शत्रुलक्षणस्य कर्मणः क्यजन्तधात्वर्थेऽन्तर्भावात् जीवति रोदिति इत्यादिवद् अकर्मकेण भवितव्यम् । सत्यम् । उपमानकर्मणोऽन्तर्भावेपि उपमेयकर्मणः अनभिधानात् तदपेक्षया सकर्मकत्वाद् अस्मान् इति कर्मणि द्वितीया । तद् उक्तं भगवता पतञ्जलिना 'सुप आत्मनः क्यच्’ (पा ३,१,८ ) इत्यत्र । 'पुत्रीयति माणवकम्' इति प्रस्तुत्य -- 'द्वे ह्यत्र कर्मणी उपमानकर्म उपमेयकर्म च । उपमानकर्म अन्तर्भूतम् । उपमेयेकर्मणा सकर्मको भवति' इति। हे वृत्रहन् वृत्रस्यासुरस्य घातक इन्द्र त्वम् अग्निश्च युवम् युवां ताम् उक्तां शत्रुसेनां प्रति दहतम् प्रातिकूल्येन भस्मीकुरुतम् ।


प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।

जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥४॥

प्रऽसूतः । इन्द्र । प्रऽवता । हरिऽभ्याम् । प्र । ते । वज्रः । प्रऽमृणन् । एतु । शत्रून् ।

जहि । प्रतीचः । अनूचः । पराचः । विष्वक् । सत्यम् । कृणुहि । चित्तम् । एषाम् ॥४॥

हे इन्द्र ते तव रथः प्रवता प्रवणवता मार्गेण । इन्द्रस्थानापेक्षया शत्रुसेनाप्रदेशः प्रवणः । अनेन अध्वनि रथस्य गतिप्रतिबन्धाभाव उक्तः। 'उपसर्गाच्छन्दसि धात्वर्थे' (पा ५,१,११८ ) इति वतिः। अत्र अर्थग्रहणसामर्थ्यात् वत्यन्तस्यापि अनव्ययत्वम। हरिभ्याम् एतन्नामकाभ्याम् अश्वाभ्यां युक्तः सन् सु सुष्ठु प्र एतु शत्रुसेनां प्राप्नोतु । ततः ते त्वदीयो वज्रः प्रमृणन् प्रकर्षेण हिंसन् शत्रून् अस्मदरातीन् प्र एतु प्रगच्छतु । त्वं च प्रतीचः प्रतिमुखम् आगच्छतः अनूचः अनु पश्चाद् आगच्छतः पराचः पराङ्मुखम् गच्छतश्च शत्रून् जहि विनाशय । 'हन्तेर्जः' (पा ६,४,३६ ) इति हौ जादेशः। 'असिद्धवदत्राभात्' (पा ६,४,२२) इति तस्यासिद्धत्वात् 'अतो हेः' (पा ६,४,१०५ ) इति हेर्लुगभावः । प्रतीच इत्यादिषु प्रत्याद्युपसर्ग उपपदे 'ऋत्विग्' (पा ३,२,५९ ) इत्यादिना अञ्चतेः क्विन् । 'अनिदिताम्” (पा ६,४,२४ ) इति नलोपः। शसि 'अचः' (पा ६,४,१३८ ) इत्यकारलोपे 'चौ' (पा ६,३,१३८ ) इति दीर्घत्वम् । प्रतीचः अनूचः इत्यत्र उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम् । 'चौ' (पा ६, १,२२२ ) इति पूर्वपदान्तोदात्तस्य तदपवादत्वेपि व्यत्ययेनात्र न प्रवृत्तिः। पराच इत्यत्र उदात्तनिवृत्तिस्वरापवादत्वेन च चुस्वरे प्राप्ते परत्वाद् 'अनिगन्तोऽञ्चतावप्रत्यये' ( पा ६,२,५२ ) इति गतेः प्रकृतिस्वरत्वम् । किंच एषाम् शत्रूणां सत्यम् व्यवस्थितं शत्रुहननलक्षणैककार्योद्यतं चित्तम् अन्तःकरणं विष्वक् सर्वतः अञ्चनशीलम् अव्यवस्थितं कार्याकार्यविभागज्ञानशून्यं कृणुहि कुरु । 'उतश्च प्रत्ययाच्छन्दसि वा वचनम्' (पावा ६,४,१०६) इति हेर्लुगभावः।


इन्द्र सेनां मोहयामित्राणाम् ।

अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥

इन्द्र । सेनाम् । मोहय । अमित्राणाम् ।

अग्नेः । वातस्य । ध्राज्या । तान् । विषूचः । वि । नाशय ॥ ५ ॥

हे इन्द्र अमित्राणाम् शत्रूणां सेनाम् स्वकीयया मायया मोहय मूढां विचित्तां विगतकर्तव्यताचेतसं कुरु । इन्द्रस्य मायासंबन्धः श्रुत्यन्तरे प्रसिद्धः -- ‘माया भिरिन्द्र मायिनम्' (ऋ १,११,७ ) इति। ततः अग्नेः वातस्य वायोश्च मिलितयोस्तयोः ध्राज्या ध्राजिः दहनविषये या वेगिता गतिस्तथाविधया वेगगत्या तयोरेव वा गत्या तान् सेनागतान् शत्रून् विषूचः सर्वतः पलायमानान् कृत्वा वि नाशय । ध्राज्येति । ध्रज गतौ इत्यस्मात् 'वसिवपियजिराजिव्रजिध्रजि' ( पाउ ४,१२५?) इत्यादिना औणादिक इञ्प्रत्ययः।


इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।

चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥६॥

इन्द्रः । सेनाम् । मोहयतु । मरुतः । घ्नन्तु । ओजसा ।

चक्षूंषि । अग्निः । आ । दत्ताम् । पुनः । एतु । पराऽजिता ॥ ६ ॥

इन्द्रः देवानाम् अधिपतिः सेनाम् शत्रुसंबन्धिनीं मोहयतु । तथा तत्सखिभूता मरुतश्च तां सेनाम् ओजसा बलेन घ्नन्तु । हन्तेर्लोटि ‘गमहन' (पा ६,४,९८ ) इत्युपधालोपे हो हन्तेः' ( पा ७,३,५४ ) इति घत्वम् । अग्निर्देवः चक्षूंषि शत्रूणाम् अक्षीणि आ धत्ताम् स्वयं स्वीकरोतु । अपहरतु इत्यर्थः । एवं मोहनादिना पराजिता पराभूता पुनरेतु प्रतिनिवर्तताम् ।

इति तृतीयकाण्डे प्रथमेऽनुवाके प्रथमं सूक्तम् ।