← सूक्तं ३.०५ | अथर्ववेदः - काण्डं ३ सूक्तं ३.६ जगद्बीजं पुरुषः |
सूक्तं ३.०७ → |
दे. वानस्पत्योऽश्वत्थः। अनुष्टुप् |
पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि ।
स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥
तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः ।
इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥
यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे ।
एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥३॥
यः सहमानश्चरसि सासहान इव ऋषभः ।
तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥४॥
सिनात्वेनान् निर्ऋतिर्मृत्योः पाशैरमोक्यैः ।
अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥५॥
यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् ।
एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च ॥६॥
तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।
न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥
प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा ।
प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥८॥
सायणभाष्यम्
द्वितीयेऽनुवाके पञ्च सूक्तानि । तत्र ‘पुमान् पुंसः' इति प्रथमं सूक्तम् । तेन अभिचारकर्मणि खदिरोत्थाश्वत्थमणिं संपात्य अभिमन्त्र्य बध्नीयात् ।
तथा अनेन सूक्तेन पाशान् इङ्गिडालंकृतान् संपात्य अभिमन्त्र्य शत्रुमर्मणि निखनेत् ।
तथैव अनेन सूक्तेन पूर्ववत् पाशान् अभिमन्त्र्य 'तेधराञ्चः' (७) इत्यृचा नदीप्रवाहे प्रक्षिपेत् ।
एवमेव पूर्ववद् अभिमन्त्रितान् पाशान् ‘प्रैणान्नुदे' (८) इति ऋचा अश्वत्थशाखया प्रणुदेत्।
[सूत्रितं हि-" पुमान् पुंस इति मन्त्रोक्तम् अभिहुतालंकृतं बध्नाति । यावन्तः सपत्नास्तावन्तः पाशान् इङ्गिडालंकृतान् संपातवतोऽनूक्तान् ससूत्रांश्चम्वा मर्मणि निखनति । नावि 'प्रैणान्' (८) 'नुदस्व काम' (अ ९,२,४ ) इति मन्त्रोक्तं शाखया प्रणुदति । 'तेधराञ्चः' इति प्रप्लावयति" (कौसू ४८,३-६ ) इति।]
तथा 'अभिचरतः अभिचर्यमाणस्य च' (शाक १७,१) इति विहितायां महाशान्तौ मणिबन्धनेऽपि एतत् सूक्तम् । तद् उक्तं शान्तिकल्पे-" 'आङ्गिरस्यां' पुमान् पुंसः' इति मन्त्रोक्तम् अभिचरतोऽभिचर्यमाणस्य च” (शाक १९,३ ) इति ।
पुमा॑न्पुं॒सः परि॑जातो ऽश्व॒त्थः ख॑दि॒रादधि॑।
स ह॑न्तु॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ।।१।।
पुमान् । पुंसः । परिऽजातः । अश्वत्थः । खदिरात् । अधि ।
सः । हन्तु । शत्रून् । मामकान् । यान् । अहम् । द्वेष्मि । ये । च । माम् ॥ १ ॥
पुमान् पुंस्त्वोपेतो वीर्यातिशययुक्तो वृक्षः पुंसः तादृशाद् वृक्षात् परिजातः प्रादुर्भूतः । एतदेव विशिनष्टि--अश्वत्थः अश्वरूपः सन् अग्निस्तिष्ठत्यत्रेति अश्वत्थः। श्रूयते हि-- 'अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरम् अतिष्ठत् । तद् अश्वत्थस्याश्वत्थत्वम्' (तैब्रा १,१,३,९) इति । अस्मादेव अग्निसंबन्धाद् अश्वत्थस्य शत्रुहननसमर्थत्वेन पुंस्त्वव्यपदेशः। खदिराद् अधि । अधिः पञ्चम्यर्थानुवादी खदिरवृक्षाद् उद्भूतः । इतरवृक्षेभ्यः खदिरस्य अतिशयितसारवत्त्वेन पुंस्त्वनिर्देशः । तथात्वं च गायत्रीसारजत्वात् । श्रूयते हि-- वषट्कारो वै गायत्रियै शिरोऽच्छिनत् । तस्यै रसः परापतत् । स पृथिवीं प्राविशत् । स खदिरोऽभवत्' (तै ३,५,७,१) इति । स खदिरोत्पन्नोश्वत्थो मणिरूपेण धार्यमाणः मामकान् मदीयान् शत्रून् शातयितॄन् हन्तु हिनस्तु। तानेव शत्रून् विशिनष्टि-- अहं यान् शत्रून् द्वेष्मि अपकारकारिणो द्वेष्मि ये च शत्रवो माम् । द्विषन्तीति विपरिणामेन संबन्धः । तान् उभयविधान् हन्तु इति संबन्धः।
तान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न्वैबाध॒दोध॑तः।
इन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ।।२।।
तान् । अश्वत्थ । निः । शृणीहि । शत्रून् । वैबाधऽदोधतः ।
इन्द्रेण । वृत्रऽघ्ना । मेदी । मित्रेण । वरुणेन । च ॥२॥
हे वैबाध । विविधं बाधते कण्टकैरिति विबाधः खदिरः । तत्रोत्पन्नो वैबाधः। 'तत्र जातः' ( पा ४,३,२५) इत्यण् । तादृश अश्वत्थ तद्विकारमणे । विकारे प्रकृतिशब्दः। दोधतः भृशं कम्पयितॄन् । धूञो यङ्लुगन्तात् शतरि अन्त्यलोपश्छान्दसः। 'अभ्यस्तानामादिः' (पा ६,१,१८९) इत्याद्युदात्तत्वम् । ईदृशान् तान् उक्तान विविधान शत्रून् निः शृणीहि निःशेषं घातय । शॄ हिंसायाम् क्र्यादिः । प्वादित्वात् ह्रस्वत्वम् । मणेः शत्रुहननसामर्थ्यं दर्शयति इन्द्रेण इत्यादिना । वृत्रघ्ना वृत्राख्यम् असुरं हतवता । हन्तेः 'ब्रह्मभ्रूणवृत्रेषु क्विप्' (पा ३,२,८७ ) इति भूते काले क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वे अल्लोपे 'अनुदात्तस्य च यत्रोदात्तलोपः' (पा ६,१,१६१) इति विभक्तेरुदात्तत्वम् । तादृशेन इन्द्रेण मित्रेण वरुणेन च मेदी स्नेही । इन्द्रादिभिः शत्रुहननसामर्थ्यं सारम् आपादितोऽयम् आश्वत्थो मणिरित्यर्थः। ञिमिदा स्नेहे । ग्रहादित्वाद् णिनिः। घञन्ताद् वा मत्वर्थीय इनिः।
यथा॑श्वत्थ नि॒रभ॑नो॒ ऽन्तर्म॑ह॒त्य॑र्ण॒वे।
ए॒वा तान्त्सर्वा॒न्निर्भ॑ङ्ग्धि॒ यान॒हं द्वेष्मि॒ ये च॒ माम् ।।३।।
या । अश्वत्थ । निःऽअभनः । अन्तः । महति । अर्णवे ।
एव । तान् । सर्वान् । निः । भङ्ग्धि । यान् । अहम् । द्वेष्मि । ये । च । माम् ॥ ३ ॥
हे अश्वत्थ मण्युपादानभूत वृक्ष महति विस्तीर्णे अर्णवे अन्तरिक्षे। 'अस्मिन् महत्यर्णवेऽन्तरिक्षे' (तै ४,५,११,१) इति लिङ्गाद् महार्णवः अन्तरिक्षम् । तत्र अन्तः मध्ये अन्तःखदिरकोटरे यथा येन प्रकारेण निरभिनः निर्भिद्य उत्पन्नोऽसि । भिदिर विदारणे। अस्मात् लङि हल्ङ्यादिना सिपो लोपे 'दश्च' (पा ८,२,७५) इति रुत्वम् । एव एवं तान् वक्ष्यमाणान् उभयविधान् सर्वान् शत्रून् निर्भिन्धि निःशेषेण विदारय । भिदेर्लोटि 'हुझल्भ्यो’ (पा ६,४,१०१) इति हेर्धिरादेशः । 'नसोरल्लोपः' (पा ६,४,१११) इत्यकारलोपः । 'झरो झरि सवर्णे' (पा ८,४,६५) इति दकारलोपः। यान् अहम् इत्यादि गतम् ।
यः सह॑मान॒श्चर॑सि सासहा॒न इ॑व ऋष॒भः।
तेना॑श्वत्थ॒ त्वया॑ व॒यं स॒पत्ना॑न्त्सहिषीमहि ।।४।।
यः। सहमानः । चरसि । ससहानःऽइव । ऋषभः ।
तेन । अश्वत्थ । त्वया । वयम् । सऽपत्नान् । सहिषीमहि ॥ ४ ॥
यः अश्वत्थः सहमानः परान् अभिभवन् चरति वर्तते । किमिव । सासहानः स्वकीयेन दर्पेण सजातीयान् अन्यान् अत्यर्थम् अभिभवन् ऋषभ इव । सहेर्यङ्लुगन्तात् लटः शानच् । हे अश्वत्थ तेन उक्तलक्षणेन त्वया वयम् त्वद्विकारभूतमणिधारकाः। सपत्नान् शत्रून् सहिषीमहि सहामहै । नाशयाम इत्यर्थः । सहेराशीर्लिङि रूपम् ।
सि॒नात्वे॑ना॒न्निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः।
अश्व॑त्थ॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ।।५।।
सिनातु । एनान् । निःऽऋतिः । मृत्योः । पाशैः । अमोक्यैः ।
अश्वत्थ । शत्रून् । मामकान् । यान् । अहम् । द्वेष्मि । ये । च । माम् ॥ ५॥
निर्ऋतिः पापदेवता अमोक्यैः सर्वथा मोक्तुम् अशक्यैः । 'कृत्याश्च', 'शकि लिङ् च' (पा ३,३,१७१,१७२ ) इति शक्यार्थे मुचेर्ण्यत्प्रत्ययः । 'चजोः कु घिण्ण्यतोः' (पा ७,३,५२ ) इति कुत्वम् । तथाविधैः मृत्योः पाशैः प्राणापहर्तृभिर्दामभिः एनान् उक्तान् शत्रून् सिनातु बध्नातु । षिञ् बन्धने क्र्यादिः। अश्वत्थ शत्रून इत्यादि व्याख्यातम्।
यथा॑श्वत्थ वानस्प॒त्याना॒रोह॑न्कृणु॒षे ऽध॑रान्।
ए॒वा मे॒ शत्रो॑र्मू॒र्धानं॒ विष्व॑ग्भिन्द्धि॒ सह॑स्व च ।।६।।
यथा । अश्वत्थ । वानस्पत्यान् । आऽरोहन् । कृणुषे । अधरान् ।
एव । मे । शत्रोः । मूर्धानम् । विष्वक् । भिन्द्धि । सहस्व । च ॥ ६॥
हे अश्वत्थ यथा त्वं वानस्पत्यान् । अत्र वनस्पतिप्ररोहार्हो देशो वनस्पतिशब्देनोच्यते। तत्र भवा वानस्पत्याः । 'दित्यदित्यादित्य' (पा ४,१,८५) इति भवार्थे ण्यः। यद्वा समूहार्थे ण्यः । तान् वृक्षान् आरोहन अधरान् नीचान् कृणुषे करोषि । एव एवं मे मदीयस्य शत्रोर्मूर्धानं शिरो विष्वक् सर्वतो भिन्द्धि विदारय । तथा सहस्व च अभिभव विनाशयेत्यर्थः ।
ते ऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्।
न वै॑बा॒धप्र॑णुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम् ।।७।।
ते । अधराञ्चः । प्र । प्लवन्ताम् । छिन्ना । नौःऽइव । बन्धनात् ।
न। वैबाधऽप्रनुत्तानाम् । पुनः । अस्ति । निऽवर्तनम् ॥ ७ ॥
ते पूर्वोक्ता द्विविधाः शत्रवः अधराञ्चः अधोमुखम् अञ्चन्तो गच्छन्तः प्र प्लवन्ताम् नदीप्रवाहस्य उपर्येव गच्छन्तु । न कदाचित् पारं प्राप्नुवन्तु इत्यर्थः । अधरशब्दोपपदाद् अञ्चतेः क्विन् । प्लवन्ताम् इति । च्युङ् प्लुङ् गतौ । भ्वादिः । तत्र दृष्टान्तः-- बन्धनात् । बध्यतेऽस्मिन्निति बन्धनं तीरवृक्षादिकम् बध्नात्यनेन नावम् इति वा बन्धनं रज्जुः। ततः छिन्ना वियुक्ता नौरिव। सा यथा तीरम् अप्राप्ता नदीप्रवाहेण अधो नीयते तद्वत् । अश्वत्थस्य महिमप्रख्यापनार्थं पारप्राप्तिशङ्का वारयति न इति। वैबाधप्रणुत्तानाम् वैबाधः खदिरोत्पन्नोऽश्वत्थः तेन प्रणुत्तानां प्रणुन्नानाम् अवाङ्मुखं प्रेरितानां शत्रूणां पुनर्निवर्तनम् पुनरागमनं न अस्ति । 'नुदविदोन्दत्राघ्राह्रीभ्योन्यतरस्याम्' (पा ८,२,५६ ) इति विकल्पनाद् निष्ठानत्वाभावः।
प्रैणा॑न्नुदे॒ मन॑सा॒ प्र चि॒त्तेनो॒त ब्रह्म॑णा।
प्रैणा॑न्वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ।।८।।
प्र। एनान् । नुदे । मनसा । प्र । चित्तेन । उत । ब्रह्मणा ।
प्र । एनान् । वृक्षस्य । शाखया । अश्वत्थस्य । नुदामहे ॥ ८ ॥
एनान् प्रागुक्तान् शत्रून् मनसा शत्रुनिरसनविषयज्ञानवता अन्तःकरणेन प्र णुदे स्थानाद उच्चाटयामि । चित्तेन मन्त्रार्थचिन्तनपरेण मनोवृत्तिविशेषेण प्र णुदे। उत अपि च ब्रह्मणा मन्त्रेण अभिमन्त्रितया अश्वत्थस्य वृक्षस्य शत्रुव्रश्चनसाधनस्य शाखया एनान् शत्रून् प्र णुदामहे । नुद प्रेरणे । तुदादिः । स्वरितेत्त्वाद् आत्मनेपदम् ।
इति तृतीयकाण्डे द्वितीयेऽनुवाके प्रथमं सूक्तम् ।।
टिप्पणी