← सूक्तं ३.०७ | अथर्ववेदः - काण्डं ३ सूक्तं ३.८ अथर्वा। |
सूक्तं ३.०९ → |
दे. १ मित्रः, पृथिवी, वरुणः, वायुः, अग्निः, २ धाता, सविता, इन्द्रः, त्वष्टा, अदितिः, ३ सोमः, सविता, आदित्यः, अग्निः, ४ विश्वे देवाः, ५-६ सांमनस्यम्। त्रिष्टुप्, ........ |
आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः ।
अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥१॥
धाता रातिः सवितेदं जुषन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः ।
हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥२॥
हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे ।
अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः ॥३॥
इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्।
अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥४॥
सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।
अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥५॥
अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।
मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥६॥
सायणभाष्यम्
'आ यातु मित्रः' इति सूक्तेन उपनयनकर्मणि माणवकं नाभिदेशे संस्पृश्य अनुमन्त्रयेत । सूत्रितं हि – “दक्षिणेन पाणिना नाभिदेशे संस्तभ्य जपति ‘अस्मिन् वसु वसवो धार
यन्तु' ( अ १,९), 'विश्वे देवा वसवः' ( अ १, ३० ), 'आयातु मित्रः' (अ ३,८), 'अमुत्रभूयात्' (अ ७,५५] कौसू ५५,१६:१७ ) इत्यादि।
अस्य सूक्तस्य आयुष्यगणे पाठात् 'मेधाजननायुष्यैर्जुहुयात्' (कौसू ५७,३१) इत्यादिष्वपि विनियोगो द्रष्टव्यः।
एवमेव शान्तिकल्पेपि – आयुष्यः शान्तिः स्वस्तिगण ऐरावत्याम् (शाक १८,८) इत्यादिष्वपि अस्य विनियोगः।
परिशिष्टेपि 'आयुष्यश्चाभयश्चैव तथा स्वस्त्ययनो गणः' ( अप ५,३,५ ) इत्यादिषु च । 'इहेदसाथ' (४, ) इत्यनया विवाहे शुल्कद्रव्यं पृथक्कृत्य इदं द्रव्यं तव इदं ममेति द्वाभ्यां निवर्तयेत् । सूत्रितं हि- 'इहेदसाथ' इत्येतया शुल्कम् अपाकृत्य । द्वाभ्यां निवर्तयतीह तव राध्यताम् अत्र ममेति यथा वा मन्यन्ते ( कौसू ७९,१७-१९ ) इति ।
सं वो मनांसि' (५;६ ) इति द्वाभ्यां सांमनस्यकर्मणि ग्राममध्ये संपातितोदकुम्भनिनयनम्, त्रिवर्षवत्सिकाया गोः पिशितानां प्राशनम्, संपातितान्नप्राशनम्, संपातितसुरायाः पायनम्, तथाविधप्रपोदकपायनं च कुर्यात् । तथा च सूत्रम् - 'सं वो मनांसि [५], 'संज्ञानं नः' (अ ७,५४,१) इति सांमनस्यानि। उदकुलिजं संपातवन्तं ग्रामं परिहृत्य मध्ये निनयति । एवं सुराकुलिजम् । त्रिहायण्या वत्सतर्याः शुक्तानि पिशितान्याशयति । भक्तं सुरां प्रपां संपातवत् करोति' ( कौसू १२,४-९) इति।
आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न्पृथि॒वीमु॒स्रिया॑भिः।
अथा॒स्मभ्य॒म्वरु॑णो वा॒युर॒ग्निर्बृ॒हद्रा॒ष्ट्रं सं॑वे॒श्य॑म्दधातु ।।१।।
आ । यातु । मित्रः । ऋतुऽभिः । कल्पमानः । सम्ऽवेशयन् | पृथिवीम् । उस्रियाभिः ।
अथ । अस्मभ्यम् । वरुणः । वायुः । अग्निः । बृहत् । राष्ट्रम् । समऽवेश्यम् । दधातु ॥१॥
मित्रः । मीतेर्मरणात् त्रायते इति मित्रः एतन्नामको देवः । 'मित्रः प्रमीतेस्त्रायते' इति हि निरुक्तम् (१०,२१) । यद्वा सर्वेषां मित्रवद् उपकारकः । “मित्रं देवाः' इति प्रक्रम्य आम्नातम् 'सर्वस्य वा अहं मित्रम् अस्मि' (तै ६,४,८,१) इति । स मित्रः आ यातु अस्मद्रक्षणार्थम् आगच्छतु । कीदृशः । ऋतुभिः वसन्ताद्यैः कल्पमानः। ऋतुसांतत्येन दीर्घम् आयुः कर्तुं समर्थो भवन्नित्यर्थः । कृपू सामर्थ्ये । लटः शानच् । शपि 'कृपो रो लः' (पा ८,२,१८ ) इति लत्वम् । अदुपदेशाल्लसार्वधातुक (पा ६,१,१८३) इति अनुदात्तत्वे शपः पित्त्वाद् अनुदात्तत्वे च धातुस्वरेण आद्युदात्तत्वम् । किं कुर्वन् । उस्रियाभिः गोभिः। किरणैरित्यर्थः। पृथिवीम् विस्तीर्णां भूमि संवेशयन् व्याप्नुवन् । अथ मित्रागमनानन्तरं वरुणः वायुः अग्निश्च अस्मभ्यं बृहत् महत् राष्ट्रम् राज्यं संवेश्यम् संवेशार्हम् अवस्थानयोग्यं दधातु विदधातु प्रकरोतु । प्रत्येकापेक्षया एकवचनम् । संपूर्वाद् विशेः अर्हार्थे यत्प्रत्ययः ।
धा॒ता रा॒तिः स॑वि॒तेदं जु॑शन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑।
हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ।।२।।
धाता । रातिः । सविता । इदम् । जुषन्ताम् । इन्द्रः । त्वष्टा । प्रति । हर्यन्तु । मे । वचः ।
हुवे । देवीम् । अदितिम् । शूरऽपुत्राम् । सऽजातानाम् । मध्यमेऽस्थाः। यथा । असानि ॥२॥
धाता सर्वस्य विधाता एतन्नामा देवः रातिः दानशीलोऽर्यमा । 'यः खलु वै ददाति सोऽर्यमा' (तै २,३,४,१) इति श्रुतेः । रा दाने इत्यस्मात् कर्तरि क्तिच् । सविता सर्वस्य प्रेरको देवश्च इदम् मदीयं हविः जुषन्ताम् सेवन्ताम् । जुषी प्रीतिसेवनयोः। एते धात्रादयः इन्द्रस्त्वष्टा च मे मदीयं वक्ष्यमाणं वचः वाक्यं स्तुतिलक्षणं वा प्रति हर्यन्तु आभिमुख्येन कामयन्ताम् । सादरं शृण्वन्तु इत्यर्थः । हर्य गतिकान्त्योः । शूरपुत्राम् शूरा विक्रान्ताः शौर्योपेताः पुत्रा मित्रवरुणादयो यस्याः सा तथोक्ता तां देवीम् दानादिगुणयुक्ताम् अदितिम् अदीनां देवमातरं हुवे आह्वयामि । ह्वेञो 'बहुलं छन्दसि' (पा ६,१,३४ ) इति संप्रसारणम् । किमर्थम् । सजातानाम् समानं जातानां बन्धूनां मध्यमेष्ठाः मध्यमेव मध्यमम् । मध्ये वर्तमानो यथा असानि भवानि । समृद्धकामः सन् स्वसमानैः सेव्यो यथा भवानि तथा कुर्वन्तु इत्यर्थः। मध्यमपूर्वात् तिष्ठतेर्विच् । सुषामादित्वात् (पा ८,३,९८ ) षत्वम् । तत्पुरुषे कृति बहुलम् ' (पा ६,३,१४ ) इति सप्तम्या अलुक् । असानि । असेर्लोटि ‘आडुत्तमस्य पिच्च' ( पा ३,४,९२ ) इत्याडागमः।
हु॒वे सोमं॑ सवि॒तारं॒ नमो॑भि॒र्विश्वा॑नादि॒त्याँ अ॒हमु॑त्तर॒त्वे।
अ॒यम॒ग्निर्दी॑दायद्दी॒र्घमे॒व स॑जा॒तैरि॒द्धो ऽप्र॑तिब्रुवद्भिः ।।३।।
हुवे । सोमम् । सवितारम् । नम:ऽभिः । विश्वान् । आदित्यान् । अहम् । उत्तरऽत्वे ।
अयम् । अग्निः । दीदयत् । दीर्घम् । एव । सऽजातैः । इद्धः । अप्रतिब्रुवत्ऽभिः ॥ ३ ॥
सोमं सवितारं विश्वान् सर्वान् आदित्यान् अदितेः पुत्रान् अन्यांश्च नमोभिः नमस्कारोपलक्षितैः स्तावकैर्मन्त्रैः अहं प्रयोक्ता उत्तरत्वे यजमानस्य श्रैष्ठ्ये । निमित्तसप्तम्येषा । श्रैष्ठ्यार्थं हुवे आह्वयामि । तथा अयम् आहुत्याधारभूतः अग्निर्दीदयत् दीप्यताम् । दीदेतिश्छान्दसो दीप्तिकर्मा । अस्मात् लेटि अडागमः । अप्रतिब्रुवद्भिः अप्रतिकूलवादिभिः अनुकूलं वदद्भिः सजातैः समानजन्मभिः पुरुषैः दीर्घमेव चिरकालमेव इद्धः समिद्धः तैरभिवर्धितः । यथाहम् असानि इति वाक्यशेषः । तथा दीप्यताम् इति संबन्धः । इद्ध इति। ञिइन्धी दीप्तौ । अस्माद् निष्ठायाम् इट्प्रतिषेधः । 'अनिदिताम्' (पा ६,४,२४) इति नलोपः।
इ॒हेद॑साथ॒ न प॒रो ग॑मा॒थेर्यो॑ गो॒पाः पु॑ष्ट॒पति॑र्व॒ आज॑त्।
अ॒स्मै कामा॒योप॑ का॒मिनी॒र्विश्वे॑ वो दे॒वा उ॑प॒संय॑न्तु ।।४।।
इह । इत् । असाथ। न । परः । गमाथ । इर्यः । गोपाः । पुष्टऽपतिः । वः । आ ।अजत् ।
अस्मै । कामाय । उप । कामिनीः । विश्वे । वः । देवाः । उपऽसंयन्तु ॥ ४ ॥
हे कामिन्यः यूयम् इहेत् । इत् इत्यवधारणे । इहेव कन्यासमीपदेश एव असाथ भवत वर्तध्वम् । अस्तेर्लेटि आडागमः । पुरः पुरस्ताद् न गमाथ। अनेतृकाः सत्यो न गच्छत । पुर इति । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (पा ५,३,३९) इति असिप्रत्ययः तत्संनियोगेन पूर्वशब्दस्य पुरादेशश्च । गमाथ । गमेर्लेटि आडागमः। छान्दसः शपो लुक् । ईर्यः मार्गप्रेरको गोपाः गोपायिता पालयिता पुष्टपतिः । पुष्टं पोषः तस्य पतिः पोषयिता । पूषा देव इत्यर्थः। 'पूषाऽपोषयत्' (तैब्रा १,६,२,२) इति हि श्रुतिः । ईदृशो देवो वः युष्मान् आजत् प्रेरयतु । अज गतिक्षेपणयोः। ईर्य इति। ईर गतौ । अस्माद् ण्यन्ताद् ‘अचो यत्' (पा ३,१,९७) इति व्यत्ययेन कर्तरि यत् । गोपाः । गुपू रक्षणे । 'गुपूधूपविच्छि' (पा ३,१,२८) इति आयप्रत्ययः। तदन्तात् क्विप् । अतो लोपे 'वेरपृक्तलोपाद् वलिलोपो बलीयान्' (पावा ६,१,६७) इति यलोपः। तथा कामाय कामयमानाय । कामयतेः पचाद्यच् । अस्मै वराय । यद्वा कामः कामना। भावे घञ् । अस्मै इति षष्ठ्यर्थे चतुर्थी । अस्य वरस्य कामाय उप तत्समीपे कामिनीः कामः काम्यमानं फलम् तद् आसु विद्यत इति कामिन्यः स्त्रियो गावः। मत्वर्थीय इनिः। यद्वा कामयमानाः । ग्रहादित्वाद् (पा ३,१,१३४) णिनिः । ईदृशीः वः युष्मान् विश्वे देवा उपसंयन्तु उपगमयन्तु। इण् गतौ। अस्मात् लोटि 'इणो यण्' (पा ६,४,८१) इति यण्।
सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि।
अ॒मी ये विव्र॑ता॒ स्थन॒ तान्वः॒ सं न॑मयामसि ।।५।।
सम् । वः । मनांसि । सम् । व्रता । सम् । आऽकूतीः । नमामसि ।
अमी इति । ये । विऽव्रताः । स्थन । तान् । वः । सम् । नमयामसि ॥ ५ ॥
हे विमनस्का जनाः वः युष्माकं मनांसि परस्परविरुद्धानि सं नमामसि । सम् इति एकीभावे । एकविषयप्रह्वाणि अविसंवादीनि कुर्मः। तथा व्रता व्रतानि । कर्मनामैतत् । वचनादानादिकर्माणि सं नमयामः । एवम् आकूतीः संकल्पान् सं नमयामः । नमेर्ण्यन्तात् लटि शपः 'छन्दस्युभयथा' (पा ३,४,११७ ) इत्यार्धधातुकत्वात् णिलोपः। 'इदन्तो मसि' (पा ७,१,४६ )। ये अमी यूयं पूर्वं विव्रताः विरुद्धकर्माणः स्तन भवथ । अस्तेर्लोटि तशब्दस्य 'तप्तनप्तनथनाश्च' (पा ७,१,४५) इति तनादेशः। 'श्नसोरल्लोपः' (पा ६,४,१११) इत्यकारलोपः । तान् विमनस्कान् वः युष्मान् सं नमयामसि संनमयामः। नमेर्ण्यन्तात् लटि 'ज्वलह्वलह्मलनमामनुपसर्गाद् वा' इति मित्त्वविकल्पस्य अनुपसर्गविषयत्वात् सोपसर्गस्य तु अमन्तत्वेन प्राप्तं मित्त्वं नित्यम् इति 'मितां ह्रस्वः' (पा ६,४,९२) इति उपधाह्रस्वत्वम् ।
अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑।
मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ।।६।।
अहम् । गृभ्णामि । मनसा । मनांसि । मम । चित्तम् । अनु । चित्तेभिः । आ। इत ।
मम । वशेषु । हृदयानि । वः । कृणोमि । मम । यातम् । अनुऽवर्त्मानः । आ । इत ॥ ६॥
हे विमनस्काः युष्मदीयानि विप्रतिपन्नानि मनांसि मनसा मदीयेन अहं गृह्णामि स्वाधीनीकरोमि । तथा यूयमपि मम चित्तम् अनुचित्तेभिः अनुसारिभिर्युष्मदीयैश्चित्तैः एत आगच्छत । मम वशेषु वशे इच्छामात्रे । व्यत्ययेन बहुवचनम् । यद्वा वशेषु वशीकृतेषु स्वाधीनेष्वर्थेषु । वश कान्तौ । इत्यस्माद् 'वशिरण्योरुपसंख्यानम्' ( पावा ३,३,५८ ) इति भावे कर्मणि वा अप् । वः युष्मदीयानि हृदयानि कृणोतु भवन्तः कुर्वन्तु । प्रत्येकविवक्षया एकवचनम् । एवं मम यातम् गमनं यूयमपि अनुवर्त्मानः अनुसृतमार्गाः सन्तः ऐत आगच्छत ।
इति तृतीयकाण्डे द्वितीयेऽनुवाके तृतीयं सूक्तम् ।