← सूक्तं ३.०९ अथर्ववेदः - काण्डं ३
सूक्तं ३.१०
अथर्वा
सूक्तं ३.११ →
दे. अष्टका, १धेनुः, २-४ रात्रिः, धेनुः, ५ एकाष्टका, ६ जातवेदाः, पशवः, ७ रात्रिः, यज्ञः, ८ संवत्सरः, ९ ऋतवः, १० धाताविधातारौ, ऋतवः, ११ देवाः, १२ इन्द्रः, देवाः, १३ प्रजापतिः । अनुष्टुप्, ४-६, १२ त्रिष्टुप्, ७ त्र्यवसाना षट्पदा विराड्गर्भातिजगती

प्रथमा ह व्युवास सा धेनुरभवद्यमे ।
सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥१॥
यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥
संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे ।
सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥३॥
इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा ।
महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥४॥
वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् ।
एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥५॥
इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय ।
ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥६॥
आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम ।
पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत ।
सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥७॥
आयमगन्त्संवत्सरः पतिरेकाष्टके तव ।
सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥८॥
ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् ।
समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥
 ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।
 धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥
 इडया जुह्वतो वयं देवान् घृतवता यजे ।
 गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥११॥
 एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।
 तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥१२॥
 इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः ।
 कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥१३॥

सायणभाष्यम्

'प्रथमा ह व्युवास' इति सूक्तेन सर्वेण पुष्ट्यर्थे अष्टकाकर्मणि आज्यमांसस्थालीपाकान् प्रत्येकं त्रिस्त्रिर्जुहोति । नवकृत्वः सूक्तावृत्तिः । माघकृष्णाष्टमी अष्टकेत्युच्यते । यथाहुः 'या माघ्याः पौर्णमास्या उपरिष्टाद् द्वयष्टका तस्याम् अष्टमी ज्येष्ठया संपद्यते ताम् एकाष्टकेत्याचक्षते' (आपगृ २१,११)। इति तस्यां तत् कर्म कार्यम् । तत्र धानाकरम्भशष्कुलीपुरोडाशोदौदनक्षीरौदनतिलौदनान् अधिश्रयणपर्यग्निकरणादिभिः संस्कृत्य आज्येन संमिश्र्य विंशतिसंख्याकान् पिण्डान् कृत्वा पशोर्दक्षिणं बाहुं निर्लोमसचर्मखुरं प्रक्षाल्य निधाय अनेन सूक्तेन दर्व्या प्रत्यृचं हुत्वा अन्ते सदर्वीम् एकविंशीम् आहुतिं जुहुयात् । अयम् अत्र क्रमः – 'प्रथमा ह व्युवास' ( अ ३.१०,१-५) इत्याद्याः पञ्च । 'आयमगन्त्संवत्सरः' (८;९) इति द्वे । इडया जुह्वतो वयम्' (११;१२ ) इति द्वे । इति नवभिर्नव पिण्डान् हुत्वा 'ऋतुभ्यष्ट्वा' (१०) इत्यस्याम् ऋचि ऋतुभ्यष्ट्वा यजे स्वाहा, आर्तवेभ्यस्त्वा यजे स्वाहा इत्येवं सानुषङ्गैरष्टधा विभक्तैर्मन्त्रैः अष्टौ पिण्डान् हुत्वा 'इन्द्रपुत्रे सोमपुत्रे' (१३) इत्यन्तिमया अष्टादशीं जुहुयात् 'अहोरात्राभ्यां त्वा यजे स्वाहा' इति सौत्रमन्त्रेण एकोनविंशीं हुत्वा 'इडायास्पदम्' (६) इत्येका 'आ मा पुष्टे च' (७) इत्येकावसाना द्वितीया । एताभ्याम् ऋग्भ्यां पशोर्दक्षिणं बाहुं विंशीं जुहुयात् । तदलाभे आज्यं जुहुयात् । 'पूर्णा दर्वि' (७) इति अवसानद्वयेन सदर्वीं पिण्डीम् एकविंशीं जुहोति (तु. कौसू १३८,१–१२) । ततः धानाकरम्भादीनि हविरुच्छिष्टानि आज्यमिश्राणि कृत्वा 'प्रथमा ह व्युवास' इति सर्वेण सूक्तेन तिस्र आहुतीर्जुहोति । इति पुष्ट्यर्थे अष्टकाकर्मण्ययं क्रमः। तद् उक्तं संहिताविधौ - " 'प्रथमा ह व्युवास सा' इत्यष्टक्याया वपां सर्वेण सूक्तेन तिस्र आहुतीर्जुहोति। समवत्तानां स्थालीपाकस्य। सहहुतान् आज्यमिश्रान् हुत्वा पश्चाद् अग्नेर्वाग्यतः संविशति। . महाभूतानां कीर्तयन् संजिहीते" ( कौसू १९,२८-३१) इति ।

नित्येऽष्टकाकर्मणि आद्यन्तयोरुक्तं सूक्तहोमं विहाय ऋग्भिरुक्तप्रकारेण एकविंशतिम् आहुतीर्जुहुयात् । तद् उक्तं कौशिकेन – 'अष्टकायाम् अष्टकाहोमान् जुहुयात् । तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षीरौदनस्तिलौदनो यथोपपादिपशुः । सर्वेषां हविषां समुद्धृत्य । दर्व्या जुहुयात् 'प्रथमा ह व्युवास सा' इति पञ्चभिः” ( कौसू १३८,१-४ ) इत्यादि।

अस्य दर्विहोमत्वात् तन्त्रविकल्पे प्राप्ते नित्यमेव तन्त्रम् इति इषुफालिमाठरयोर्मतम् तथा च कौशिकः - 'न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेतेत्येके । अष्टकायां क्रियेत इति इषुफालिमाठरौ'( कौसू १३८,१५,१६) इति । सोमयागे सोमक्रयणीपदहोमानुमन्त्रणे 'इडायास्पदम्' इत्येषा विनियुक्ता । तद् उक्तं वैतानसूत्रे । 'सोमक्रयणीं प्रपाद्यमानाम्' इति प्रक्रम्य पदाभिहोमम् 'इडायास्पदम्(वैताश्रौ १३,५,६ ) इति।

चातुर्मास्येषु साकमेधे पूर्णदर्विहोमे 'पूर्णा दर्वि' ( ७ ) इत्येषा। तद् उक्तं वैताने - “कार्तिक्यां साकमेधाः' इति प्रक्रम्य 'श्वो भूते पूर्णदर्व्यं पूर्णा दर्वे' (वैताश्रौ ९,१-४) इति ।

राज्ञो रात्रौ आरात्रिकविधाने 'यां देवाः प्रतिनन्दन्ति' ( अ ३,१०,२ ) इत्येषा रात्रिदेवतावाहने विनियुक्ता । 'संवत्सरस्य प्रतिमाम्' (३) इत्येषा च पिष्टमय्या रात्रिप्रतिकृतरुपवेशने विनियुक्ता। तद् उक्तं परिशिष्टे – 'अथातः पिष्टरात्र्याः कल्पे व्याख्यास्यामः' इति प्रक्रम्य "यां देवाः प्रतिनन्दन्ति' इति रात्रिम् आवाहयेत् । 'संवत्सरस्य प्रतिमाम्' इति पिष्टमयीं प्रतिकृतिं कृत्वोदङ्मुखीम् उपेवशयेत्' (अप ६,१,१-५) इति । तत्रैव रात्र्युपस्थाने 'आ मा पुष्टे च पोषे च' इत्याद्या विनियुक्ताः । तद् उक्तं तत्रैव । 'आ मा पुष्टे च पोषे चेत्येताभिरुपस्थाय' ( अप ६,१,८ ) इति ।


प्र॑थ॒मा ह॒ व्यु॑वास॒ सा धे॒नुर॑भवद्य॒मे।

सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरा॒म्समा॑म् ।।१।।

प्रथमा । ह । वि । उवास । सा । धेनुः । अभवत् । यमे ।

सा । नः । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥ १ ॥

प्रथमा ह सृष्ट्यादौ उत्पन्ना खल्वेषा एकाष्टकासंबन्धिनी आद्या उषाः व्युवास तमोव्युदसनं कृतवती। विपूर्वो वसिर्वर्जने वर्तते । सृष्टेः प्राक् अहोरात्रविभागशून्यं कालं तद्युक्तम् अकरोद् इत्यर्थः । तथा च श्रुत्यन्तरे - 'न वा इदं दिवा न नक्तम् आसीद् अव्यावृत्तम् । ते देवा एता व्युष्टीरपश्यन् । ता उपादधत। ततो वा इदं व्यौच्छत्' (तै ५,३,४,७) इति । यद्वा हशब्दः श्रुत्यन्तरप्रसिद्धौ। तथा हि - ‘इयमेव सा या प्रथमा व्यौच्छत्' इति प्रक्रम्य 'प्रजाम् एका रक्षत्यूर्जम् एका' (तै ४,३,११,१) इत्यादिना प्रजारक्षणादिव्यापारपञ्चकविधानेन 'ऋतस्य गर्भः प्रथमा व्यूषुषी' (तै ४,३,११,५) इति मन्त्रोक्तव्यापारपञ्चकभेदेन वा ‘पञ्च व्युष्टीरनु पञ्च दोहाः' (तै ४,३,११,४) इति पञ्चसंख्यानिर्दिष्टे नन्दादितिथ्यपेक्षया वा पञ्चोषसः प्रतिपादिताः। एतमेव भेदम् अपेक्ष्य 'आस्वितरासु चरति प्रविष्टा' (४) इत्यग्रे समाम्नास्यते । तासां मध्ये एकाष्टकासंबन्धिन्युषाः प्रथमा सर्वत्रानुगमनात् प्रधानभूता सा व्युवासेति । सा तादृगुषोयुक्ता एकाष्टका यमे पितॄणाम् अधिपतौ विषये धेनुः प्रीणयित्री अभवत् । अत्र एकाष्टकातिथेः पित्र्यकर्मणि अक्षयफलसाधनत्वेन धेनुत्वव्यपदेशः। अत एव अन्यत्राम्नायते - “एकाष्टकां पश्यत दोहमानाम् अन्नं मांसवद् घृतवत् स्वधावत्' ( हिगृ २,१५,९ ) इति । सा एकाष्टका धेनुः नः अस्माकं पयस्वती पयउपलक्षितभोग्यवस्तुयुक्ता सती उत्तरामुत्तरां समाम् । अत्यन्तसंयोगे द्वितीया। उपर्युपरिभाविषु सर्वेषु वत्सरेषु दुहाम् अभिमतफलं दुग्धाम् । उत्तरामुत्तराम् इति। 'नित्यवीप्सयोः' (पा ८,१,४) इति द्विर्वचनम् । 'अनुदात्तं च' (पा ८,१,३) इति आम्रेडितानुदात्तत्वम् । दुहाम् इति । दुह प्रपूरणे । स्वरितेत्त्वाद् आत्मनेपदम् । लोटि 'लोपस्त आत्मनेपदेषु' (पा ७,१,४१) इति तलोपः।


यां दे॒वाः प्र॑ति॒नन्द॑न्ति॒ रात्रि॑म्धे॒नुमु॑पाय॒तीम्।

सं॑वत्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली ।।२।।

याम् । देवाः । प्रतिऽनन्दन्ति । रात्रिम् । धेनुम् । उपऽआयतीम् ।

सम्ऽवत्सरस्य । या । पत्नी । सा । नः । अस्तु । सुऽमङ्गली ॥ २ ॥

याम् एकाष्टकासंबन्धिनीं रात्रिम् । 'रात्रेश्चाजसौ' (पा ४,१,३१) इति ङीवभावश्छान्दसः। धेनुम् उक्तप्रकारेण धेनुरूपाम् उपायतीम् समीपम् आगच्छन्तीं दृष्ट्वा देवाः हविर्भुजः प्रतिनन्दन्ति प्रशंसन्ति । उपायतीम् इति । उपाङ्पूर्वाद् एतेर्लटः शत्रादेशः । 'इणो यण' (पा ६,४,८१ ) इति यण् । 'उगितश्च' (पा ४,१,६) इति ङीप् । 'शतुरनुमो नद्यजादी (पा ६,१,१७३ ) इति नद्या उदात्तत्वम् । या एकाष्टका संवत्सरस्य तदात्मकस्य 'कालस्य पत्नी' जाया। तथा च श्रुत्यन्तरम् - 'एषा वै संवत्सरस्य पत्नी यद् एकाष्टका। एतस्यां वा एष एतां रात्रिं वसति' (तै ७,४,८,१) इति । सा एकाष्टका नः अस्मान् उद्दिश्य सुमङ्गली शोभनमङ्गलयुक्ता अस्तु भवतु । शोभनं मङ्गलं यस्या इति बहुव्रीहौ 'नञ्सुभ्याम्' (पा ६,२, १७२ ) इत्युत्तरपदान्तोदात्तत्वम्। "सुमङ्गलभेषजाच्च' (पा ४,१,३०) इति विहितस्य ङीपः उदात्तनिवृत्तिस्वरेण उदात्तत्वम् ।


सं॑वत्स॒रस्य॑ प्रति॒मां यां त्वा॑ रात्र्यु॒पास्म॑हे।

सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ।।३।।

सम्ऽवत्सरस्य । प्रतिऽमाम् । याम् । त्वा । रात्रि । उपऽआस्महे ।

सा । नः । आयुष्मतीम् । प्रऽजाम् । रायः । पोषेण । सम् । सृज ॥ ३ ॥

हे रात्रि संवत्सरस्य प्रतिमाम् प्रतिकृतिरूपाम् । प्रतिनिधित्वेन निर्मीयत इति प्रतिमा । 'आतश्चोपसर्गे' (पा ३,३,१०६ ) इत्यङ् । यां त्वा त्वाम् उपास्महे सेवामहे । आस उपवेशने । अदादित्वात् शपो लुक् । सा त्वम् नः अस्माकं प्रजाम् पुत्रपौत्रादिरूपाम् आयुष्मतीं चिरकालजीवनवतीं कुर्वंती सती रायः धनस्य गवादिलक्षणस्य पोषेण पुष्ट्या सं सृज संयोजय । 'षष्ठ्याः पतिपुत्र' (पा ८,३,५३ ) इति रायो विसर्जनीयस्य सत्वम् ।


इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑दा॒स्वित॑रासु चरति॒ प्रवि॑ष्टा।

म॒हान्तो॑ अस्यां महि॒मानो॑ अ॒न्तर्व॒धूर्जि॑गाय नव॒गज्जनि॑त्री ।।४।।

इयम् । एव । सा । या । प्रथमा । विऽऔच्छत् । आसु । इतरासु । चरति । प्रऽविष्टा।

महान्तः । अस्याम् । महिमानः । अन्तः । वधूः । जिगाय । नवऽगत् । जनित्री ॥ ४ ॥

इयमेव अद्यतनी एकाष्टकालक्षणा सा प्रथमम् उत्पन्ना उषाः । अनेन तादात्म्यप्रतिपादनेन अस्या अतिशयितमहत्त्वम् उक्तं भवति। तच्छब्दार्थम् आह । या उषाः प्रथमा प्रागुक्तप्रकारेण सृष्ट्यादौ उत्पन्ना सती व्यौच्छत् तमोनिरसनं कृतवती। उछी विवासे । सेयम् एकाष्टका उषाः आसु परिदृश्यमानासु इतरासु अन्यासु उषःसु प्रविष्टा अनुगता सती चरति वर्तते उदेति । श्रूयते हि- 'एका सती बहुधोषो व्युच्छसि' (तै ४,३,११,५) इति । प्रपूर्वाद् विशेः कर्तरि निष्ठा । व्यत्ययेन अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा प्रविष्टा सूर्येणानुप्रविष्टा । कर्मणि क्तः। 'गतिरनन्तरः' (पा ६, २,४९) इति गतेः प्रकृतिस्वरत्वम् । अस्याम् उक्तलक्षणायाम् उषसि अन्तः मध्ये महान्तः अपरिमिताः महिमानः माहात्म्यविशेषाः । वर्तन्त इति शेषः । यद्वा महिमानः महत्त्वोपेताः महान्तः मुख्याः सूर्यसोमाग्नयः अस्याम् अन्तर्वर्तन्ते । सूर्यादय एतदधीनाः प्रकाशन्त इत्यर्थः। 'त्रय एनां महिमानः सचन्ते' (तै ४,३,११,१) इति श्रुतेः। वधूः सूर्यस्य जायोषाः । ‘सूर्यपत्नी वि चरतः प्रजानती' (तै ४,३,११,१) इति श्रुत्यन्तरात् । नवगत् । नवम् अभिनवं प्रतिदिवसम् उद्यन्तं सूर्यं तदविनाभावेन गच्छतीति, नवम् अभिनवम् उत्पद्यमानं प्राणिजातं गच्छति व्याप्नोतीति वा नवगत् । यद्वा प्रतिदिनम् उत्पद्यमानमपि नवम् अभिनवम् उत्कृष्टम् एकविधं रूपं गच्छतीति नवगत् । तथा च मन्त्रवर्णः- 'पुनःपुनर्जायमाना पुराणी समानं वर्णम् अभि शुम्भमाना' (ऋ १,९२,१० ) इति । अथवा नवधा विभक्तान् अहर्भागान् प्रातरादीन् गच्छतीति नवगत् । ते च भागाः प्रातःसंगवमध्याह्नापराह्णसायाह्नाख्याः पञ्च तदन्तरालकालाश्च चत्वारः। श्रूयते हि तैत्तिरीयके प्रातरादीन् प्रस्तुत्य 'समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्यश्लीलानि । तानि नव' (तैब्रा १,५,३,४ ) इति । स्मर्यते च

'प्रातरातः संगवश्च रुग्णो मध्याह्नसंतपौ।

अपराह्णं खनिः सायं नवधा भिद्यते त्वहः॥' इति ।

नवपूर्वाद् गमेः क्विप् । ‘गमः क्वौ' (पा ६,४,४०) इत्यनुनासिकलोपः । 'ह्रस्वस्य पिति कृति तुक्' (पा ६,१,७१) इति तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एवंभूतोषाः जनित्री जनानां प्रकाशप्रदानेन साधु जनयित्री सती जिगाय जयति सर्वोत्कर्षेण वर्तते। जयतेर्लिटि 'सन्लिटोर्जेः' (पा ७,३,५२) इत्यभ्यासाद् उत्तरस्य कुत्वम् । जनित्रीति । जनेर्ण्य॑न्तात् साधुकारिणि तृन् । 'बहुलम् अन्यत्रापि” (पाउ २,२५) इति णिलोपः।।


वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्।

एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ।।५।।

वानस्प॒त्याः। ग्रावाणः। घोषम् । अक्रत । हविः । कृण्वन्तः । परिवत्सरीणम् ।

एकऽअष्टके ।सुप्रजसः। सुऽवीराः । वयम् । स्याम । पतयः । रयीणाम् ॥ ५॥

हे एकाष्टके त्वदर्थं वानस्पत्याः वनस्पतिविकाराः उलूखलमुसलादयः । 'पत्युत्तरपदाण्ण्यः' (पा ४,१,८५) इति ण्यः । ग्रावाणः दृषदुपलादयः परिवत्सरीणम् संवत्सरेण निर्वृत्तम् । 'संपरिपूर्वात् ख च' (पा ५,१,९२) इति निर्वृत्तार्थे खप्रत्ययः । ईदृशं हविः धानाकरम्भचरुपुरोडाशादिकं कृण्वन्तः अवहननपेषणादिद्वारा उत्पादयन्तः घोषम् प्रीतिकरं शब्दम् अक्रत अकृषत । कृञो लुङि आत्मनेपदे ‘मन्त्रे घस' (पा २,४,८०) इति च्लेर्लुक् । हे एकाष्टके एका चासावष्टका एकाष्टका । 'दिक्संख्ये संज्ञायाम्' (पा २,१,५०) इति समासः । 'अष्टका पितृदेवत्ये' (पावा ७,३,४५) इति इत्वाभावः। त्वदनुग्रहाद् वयं सुप्रजसः शोभनपुत्रपौत्रादियुक्ताः । 'नित्यमसिच् प्रजामेधयोः' (पा ५,४,१२२) इत्यसिच् समासान्तः। सुवीराः। विविधम् ईरयन्ति शत्रून् इति वीरा भृत्याः। 'वीरो वीरयत्यमित्रान्' इति निरुक्तम् (१,७)। वीर विक्रान्तौ । इत्यस्माद् वा पचाद्यच् । बहुव्रीहौ 'वीरवीर्यौ च' (पा ६,२,१२० ) इत्युत्तरपदाद्युदात्तत्वम् । सुभृत्याः सन्तो रयीणाम् धनानां पतयः स्वामिनः स्याम भवेम । 'नामन्यतरस्याम्' (पा ६,१,१७७) इति नाम उदात्तत्वम् ।


इडा॑यास्प॒दं घृ॒तव॑त्सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय।

ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां॑ सप्ता॒नां मयि॒ रन्ति॑रस्तु ।।६।।

इडायाः । पदम् । घृतऽवत् । सरीसृपम् । जातऽवेदः। प्रति । हव्या । गृभाय।

ये। ग्राम्याः। पशवः । विश्वऽरूपाः । तेषाम् । सप्तानाम् । मयि । रन्तिः । अस्तु॥६॥

इलायाः । गोनामैतत् । ‘इला धेनुः सहवत्सा न आगात्' (आपश्रौ ४,१०,७) इत्यादिश्रुतेः। 'इडाया वा' (पा ८,३,५४ ) इति विसर्जनीयस्य सत्वम् । तस्याः पदम् पादः घृतवत् घृतोपेतम् । 'सा यत्रयत्र न्यक्रामत् ततो घृतम् अपीड्यत' (तै २,६,७,१) इति श्रुतेः। सरीसृपम् अत्यर्थं सर्पत् । सृपेर्यङ्लुगन्तात् पचाद्यच् । 'न धातुलोप आर्धधातुके' (पा १,१,४) इति लघूपधगुणप्रतिषेधः । इडापदात्मना भावितं पशोर्दक्षिणं पादम् हव्या हव्यानि धानाकरम्भादीनि हवींषि च । शेर्लोपः। हे जातवेदः जातानां वेदितरग्ने प्रति गृभाय प्रतिगृहाण । 'हलः श्नः शानज्झौ', 'छन्दसि शायजपि' (पा ३,१,८३,८४) इति श्नः शायजादेशः । 'हृग्रहोर्भ:०' (पावा ८,२,३२) इति भः । गृहीतहविषस्तव प्रसादाद् ग्राम्याः ग्रामे भवा गोश्वाजाविपुरुषगर्दभोष्ट्राख्या विश्वरूपाः नानाकारा ये पशवः सन्ति तेषाम् उक्तानां सप्तानां पशूनां रन्तिः प्रीतिः मयि च अस्तु । ततः समृद्धिर्भवतु इत्यर्थः । रमेः क्तिनि अनुनासिकलोपाभावश्छान्दसः।


आ मा॑ पु॒ष्टे च॒ पोषे॑ च॒ रात्रि॑ दे॒वानां॑ सुम॒तौ स्या॑म।

पू॒र्णा द॑र्वे॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त।

सर्वा॑न्य॒ज्ञान्त्सं॑भुञ्ज॒तीष॒मूर्जं॑ न॒ आ भ॑र ।।७।।

आ । मा । पुष्टे । च । पोषे। च । रात्रि । देवानाम् । सुऽमतौ । स्याम ।

पूर्णा । दर्वे । परा । पत। सुऽपूर्णा । पुनः। आ । पत ।

सर्वान् । यज्ञान् । सम्ऽभुजती । इषम् । ऊर्जम् । नः । आ । भर ॥

हे रात्रि मा मां पुष्टे समृद्धे धने पोषे पुत्रपौत्रादिसमृद्धौ । परस्परसमुच्चयार्थौ चकारौ । आ इति उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । आ स्थापय । त्वत्प्रसादाद् वयं च देवानाम् इन्द्रादीनां सुमतौ कल्याण्यां बुद्धौ स्याम भवेम । हे दर्वि होमसाधनभूते त्वं पूर्णा हविर्भिः पूरिता सती परा पत परागच्छ । यष्टव्यान् देवान् प्रति गच्छ। ततः सुपूर्णा अभिमतफलैः परिपूर्णा सती पुनरा पत अस्मान् आगच्छ । पत्लृ गतौ । पूर्णेति । पॄ पालनपूरणयोः इत्यस्मात् ण्यन्तात् 'वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः' (पा ७,२,२७) इति इडभावो णिलुक् च निपात्यते। 'उदोष्ठ्यपूर्वस्य' (पा ७,१,१०२) इत्युत्त्वम् । ‘रदाभ्याम्' (पा ८,२,४२) इति नत्वम् । सुपूर्णेति । 'गतिरनन्तरः' (पा ६,२,४९) इति गतेः प्रकृतिस्वरत्वम् । सर्वान् यज्ञान् यष्टव्यान् । 'यजयाच' (पा ३,३,९०) इत्यादिना कर्मणि नङ्प्रत्ययः । संभुञ्जती हविषा सम्यक् पालयन्ती प्रीणयन्ती। भुजेः पालनार्थाद् आत्मनेपदाभावे शतृप्रत्ययः। ‘शतुरनुमः' (पा ६,१,१७३ ) इति ङीप उदात्तत्वम् । ईदृशी सती देवेभ्यः सकाशाद् इषम् अन्नम् ऊर्जम् बलं च नः अस्मभ्यम् आ भर आहर । पूर्णा दर्वीति पृथग्ग्रहणात् 'ग्रहणम् आ ग्रहणाद्' (कौसू ८,२१) इति न्यायात् विनियोगविषये 'आ मा पुष्टे च' इत्येकावसाना ऋक् । पञ्चपटलिकायां (३,१२) तु त्र्यवसाना एकैव ऋग् इत्युक्तम् ।


आयम॑गन्त्संवत्स॒रः पति॑रेकाष्टके॒ तव॑।

सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ।।८।।

आ । अयम् । अगन् । सम्ऽवत्सरः । पतिः । एकऽअष्टके । तव ।

सा । नः । आयुष्मतीम् । प्रऽजाम् । रायः । पोषेण । सम् । सृज ॥ ८ ॥

एकाष्टके तव पतिः अयं संवत्सरः आगन् आगतः। संवत्सरस्य पतित्वं प्राग् उक्तम् । सा त्वं पत्या सहिता नः अस्माकं प्रजाम् पुत्रपौत्रादिलक्षणाम् आयुष्मतीं कुर्वती रायः धनस्य पोषेण सं सृज संयोजय ।


ऋ॒तून्य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्।

समाः॑ संवत्स॒रान्मासा॑न्भू॒तस्य॒ पत॑ये यजे ।।९।।

ऋतून् । यजे । ऋतुऽपतीन् । आर्तवान् । उत । हायनान् ।

समाः । सम्ऽवत्सरान् । मासान् । भूतस्य । पतये । यजे ॥९॥

ऋतून् वसन्तादीन् यजे हविषा प्रीणयामि । ऋतुपतीन् तेषाम् ऋतूनाम् अधिष्ठातॄन् अग्न्यादीन् देवांश्च । यजे इति सर्वत्र संबन्धः। आर्तवान् ऋत्ववयवान् अन्यान् अनुक्तान् कलाकाष्ठादीन् कालविशेषान् । 'ऋतोरण' (५,१,१०५ ) इति अण्प्रत्ययः । उत अपि च हायनान् समा: संवत्सरान् । इत्येते शब्दा यद्यपि समानार्थास्तथापि अत्र हायनशब्देन संवत्सरसंबन्धिनः अहोरात्रा लक्ष्यन्ते । जहति जिहते वा भावान् इति हायनाः । 'हश्च व्रीहिकालयोः' (पा ३,१,१४८) इति ण्युट् । समाशब्देन समप्रविभक्ताश्चतुर्विंशतिसंख्याका अर्धमासाः । तान् संवत्सरान् द्वादशमासात्मकान् मासान् चैत्राद्यान् द्वादशसंख्याकान् यजे इति संबन्धः। भूतस्य सद्भावं प्राप्तस्य चराचरात्मकस्य जगतः पतये यः पतिरन्तर्यामी अनवच्छिन्नकालात्मकः तस्मै । 'क्रियाग्रहणं कर्तव्यम्' (पावा १,४,३२ ) इति कर्मणः संप्रदानत्वाच्चतुर्थी । तं भूतपतिं च यजे हविषा प्रीणयामि । यद्वा । भूतस्य पतय इति तादर्थ्ये चतुर्थी । भूतपतिप्रीणनाय ऋत्वादीन् यज इति संबन्धः।


ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑।

धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ।।१०।।

ऋतुऽभ्यः । त्वा । आर्तवेभ्यः । मात्ऽभ्यः । सम्ऽवत्सरेभ्यः ।

धात्रे । विऽधात्रे । सम्ऽऋधे । भूतस्य । पतये । यजे ॥ १०॥

हे एकाष्टके त्वा त्वाम् ऋतुभ्यः वसन्तादिभ्यः तत्प्रीत्यर्थम् यजे इत्यनुषङ्गः। एवम् आर्तवेभ्यः ऋतुसंबन्धिभ्यः अहोरात्रादिभ्यः । त्वा यजे इति सर्वमन्त्रेषु अनुषङ्गः। माद्भ्यः मासेभ्यः। ‘पद्दनोमास्' (पा ६,१,६३ ) इत्यादिना मासशब्दस्य मास् इत्यादेशः । 'स्ववस्स्वतवस्मासुषसां च त इष्यते छन्दसि' ( पावा ७,४,४८ ) इति सकारस्य तत्वम् । संवसन्त्यस्मिन्निति संवत्सरः। संपूर्वाद् वसेरौणादिकः सरप्रत्ययः । 'सः स्यार्धधातुके' (पा ७,४,४९) इति तत्वम् । तेभ्यः धात्रे धाता धारयिता एतन्नामको देवः तस्मै विधात्रे सर्वस्य निर्मात्रे देवाय समृधे समर्धयित्रे एतन्नाम्ने देवाय । ऋधु वृद्धौ। संपूर्वाद् अस्मात् क्विप् । भूतस्य पतये उक्तलक्षणाय देवाय । 'षष्ठीयुक्तश्छन्दसि वा' (पा १,४,९ ) इति पतिशब्दस्य 'घिसंज्ञायां 'घेर्ङिति' (पा ७,३,१११) इति गुणः । यजे हविषा प्रीणयामि।


इड॑या॒ जुह्व॑तो व॒यं दे॒वान्घृ॒तव॑ता यजे।

गृ॒हानलु॑भ्यतो व॒यं सं॑ विशे॒मोप॒ गोम॑तः ।।११।।

इडया । जुह्वतः । वयम् । दे॒वान् । घृतऽवता । यजे ।

गृहान् । अलुभ्यतः । वयम् । सम् । विशेम । उप । गोऽमतः ॥ ११ ॥

इडया । गोनामैतत् । तदुपलक्षितेन मांसादिरूपेण हविषा घृतवता उपस्तरणाभिघारणार्थघृतयुक्तेन जुह्वतः होमं कुर्वन्तः अग्नौ हविः प्रक्षिपन्तः । तृतीया च होश्छन्दसि' (पा २,३,३) इति कर्मणि तृतीया । तथाविधा वयं देवान् यजे । व्यत्ययेन एकवचनम् । यजामहे प्रीणयामः । जुह्वत इति । जुहोतेर्लटः शत्रादेशे 'नाभ्यस्ताच्छतुः' (पा ७,१,७८) इति नुम्प्रतिषेधः । ‘अभ्यस्तानामादिः' (पा ६,१,१८९) इत्याद्युदात्तत्वम् । तेषां देवानाम् अनुग्रहाद् वयम् अलुभ्यतः गार्ध्यम् अकुर्वाणाः संपूर्णाः सन्तः । लुभ गार्ध्ये । दिवादित्वात् श्यन् । 'अनित्यमागमशासनम्' इति नुमभावः। यद्वा गृहविशेषणम् । अलुभ्यतः गार्ध्यरहितान् । काम्यमानसकलवस्तुसमेतान् इत्यर्थः । गोमतः । भूम्नि मतुप् । बहुभिर्गोभिर्युक्तान् गृहान् उप । क्रियाध्याहारः। उपेत्य सं विशेम सुखेन निवसेम ।


ए॑काष्ट॒का तप॑सा त॒प्यमा॑ना ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म्।

तेन॑ दे॒वा व्य॑सहन्त॒ शत्रू॑न्ह॒न्ता दस्यू॑नामभव॒च्छची॒पतिः॑ ।।१२।।

एकऽअष्टका । तपसा । तप्यमाना । जजान । गर्भम् । महिमानम् । इन्द्रम् ।

तेन । देवाः । वि । असहन्त । शत्रून् । हन्ता । दस्यूनाम् । अभवत् । शचीऽपतिः ॥१२॥

एकाष्टका माघकृष्णाष्टमीत्युक्तम् । सा देवतात्वेन स्तूयते । तपसा तप्यमाना व्यत्ययेन कर्मणि तृतीया। 'तपस्तपःकर्मकस्यैव' ( पा ३,१,१८८) इति कर्मवद्भावाद् यगात्मनेपदे । अदुपदेशाल्लसार्वधातुक' (पा ६,१,१८३ ) इति अनुदात्तत्वेन यक उदात्तत्वे प्राप्ते व्यत्ययेन धातुस्वरः। यद्वा तप ऐश्वर्ये दिवादिः आत्मनेपदी । श्यनो नित्त्वाद् आद्युदात्तत्वम् । सर्वस्य ईशाना एकाष्टका तपसा संतापकरेण पुत्रार्थेन कर्मणा गर्भम् गर्भभूतं महिमानम् महत्त्वोपेतम् इन्द्रं जजान जनयामास । यद्वा गर्भं गरणीयं स्तुत्यं वन्दनीयम् । गॄ शब्दे । 'अर्तिगॄभ्यां भन्' ( पाउ ३,१५२ ) इति भन् प्रत्ययः । गर्भस्थवद् अदृश्यं वा । गॄ निगरणे । अस्माद् वा भन् । एवंभूतम् इन्द्रम् ईशितारम् आदित्यं जजान जनयामास प्राकाशयत् । तेन उक्तलक्षणेन इन्द्रेण देवाः शत्रून् शातयितॄन् असुरान् व्यसहन्त विशेषेण अभ्यभवन् । स च इन्द्रः शचीपतिः शच्या देव्याः पतिः । यद्वा शचीति कर्मनाम । शचीनां कर्मणां पतिः स्वामी दस्यूनाम् उपक्षपयितॄणां हन्ता अभवत् घातको भवतु । शचीपतिरिति । वनस्पत्यादित्वाद् (पा ६,२,१४०) उभयपदप्रकृतिस्वरत्वम् ।


इन्द्र॑पुत्रे॒ सोम॑पुत्रे दुहि॒तासि॑ प्र॒जाप॑तेः।

कामा॑न॒स्माकं॑ पूरय॒ प्रति॑ गृह्णाहि नो ह॒विः ।।१३।।

इन्द्रऽपुत्रे । सोमऽपुत्रे । दुहिता । असि । प्रजाऽपतेः ।

कामान् । अस्माकम् । पूरय । प्रति । गृह्णाहि । नः । हविः ॥ १३ ॥

हे इन्द्रपुत्रे उक्तरीत्या इन्द्रः पुत्रो यस्यास्तादृशि हे सोमपुत्रे सोमः पुत्रो यस्यास्तथाविधे । 'यां देवाः प्रतिनन्दन्ति रात्रिम्' ( अ ३,१०,२) इति रात्र्येकाष्टकयोरभेदव्यवहाराद् रात्रौ चन्द्रस्य प्रकाशस्य उपलब्धेश्च पुत्रत्वोपचारः । यद्वा गवामयनाख्ये संवत्सरसत्रे एकाष्टकायां सोमस्य क्रयणात् पुत्रत्वोपचारः । श्रूयते हि गवामयनदीक्षां प्रस्तुत्य –'तेषाम् एकाष्टकायां क्रयः संपद्यते' ( तै ७,४,८,२) इति । ईदृशि हे एकाष्टके त्वं प्रजापतेः प्रजानां देवानां मनुष्यादीनां स्रष्टुः दुहितासि पुत्री भवसि। तथाविधा त्वम् अस्माकं कामान् काम्यमानान् प्रजापश्वादीन् अर्थान् पूरय समृद्धान् कुरु। तदर्थं नः अस्मदीयं हविः प्रति गृह्णाहि प्रतिगृहाण स्वीकुरु । ग्रहेर्लोटि सिपो हिरादेशः। 'हलः श्नः शानज्झौ' (पा ३,१,८३ ) इति शानजादेशो व्यत्ययेन न प्रवर्तते । 'वा छन्दसि' (पा ३, ४,८८ ) इति हेः पित्त्वेन ङित्त्वस्य निवर्तनात् 'ई हल्यघोः' (पा ६,४,११३ ) इति ईत्वमपि न भवति।

इति द्वितीयेऽनुवाके पञ्चमं सूक्तम् ।

द्वितीयोऽनुवाकः समाप्तः।


टिप्पणी