← सूक्तं ३.१४ | अथर्ववेदः - काण्डं ३ सूक्तं ३.१५ अथर्वा (पण्यकामः) |
सूक्तं ३.१६ → |
दे. विश्वेदेवाः, इन्द्राग्नी। त्रिष्टुप्, १ भुरिक्, ४ त्र्यवसाना षट्पदा बृहतीगर्भा विराडत्यष्टिः, ५ विराड्जगती, ७ अनुष्टुप्, ८ निचृत्। |
इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।
नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् ।
शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु ।
इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।
तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।
तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥
उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।
स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥
विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः ।
रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥
सायणभाष्यम्
'इन्द्रम् अहं वणिजम्' इति वाणिज्यलाभार्थं विनियुज्यते । विक्रयार्थं पण्यानि विपणिं नयन् वणिक् कर्म वाणिज्यलाभार्थं कुर्यात् । तद् यथा - 'इन्द्रम् अहम्' इति सूक्तेन वज्रं वस्त्रं वा पूगीफलं वा अश्वान् वा हस्तिनो वा रत्नादि वा संपात्य अभिमन्त्र्य तत उत्थापयति । सूत्रितं हि -"'इन्द्रम् अहम्' इति पण्यं संपातवद् उत्थापयति" (कौसू ५०,१२) इति। तथा अनेनैव सूक्तेन पण्यकामः इन्द्रं यजते उपतिष्ठते वा । सूत्रितम् । ‘इन्द्रम् अहम्' इति पण्यकामः” ( कौसू ५९,६) इति।
तथा क्रव्याच्छमने कर्मणि 'विश्वाहा ते' (८) इति ऋचा पूर्णाहुतिं जुहोति । सूत्रितं च-“ विश्वाहा ते' इति पूर्णाहुतिं जुहोति" (कौसू ७०,१४) इति ।
इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ अैतु॑ पुरए॒ता नो॑ अस्तु।
नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म् ।।१।।
इन्द्रम् । अहम् । वणिजम् । चोदयामि । सः । नः । आ । एतु । पुरःऽएता । नः । अस्तु ।
नुदन् । अरातिम् । परिऽपन्थिनम् । मृगम्। सः। ईशानः । धनऽदाः । अस्तु । मह्यम् ॥१॥
अहम् व्यवहर्ता इन्द्रम् परमैश्वर्योपेतं देवं वणिजम् वाणिज्यकर्तारं चोदयामि प्रेरयामि प्रवर्तयामि । णुद प्रेरणे । सः वणिक्त्वेन प्रेरित इन्द्रो नः अस्मान् ऐतु आगच्छतु । आगत्य च नः अस्माकं पुरएता पुरतो गन्ता अस्तु भवतु । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (पा ५,३,३९) इति पूर्वशब्दाद् असिप्रत्ययः तत्संनियोगेन पुरादेशश्च । तृजन्तेन' समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । किं कुर्वन् । अरातिम् वाणिज्यविघातकं शत्रुं परिपन्थिनम् पर्यवस्थातारं मार्गनिरोधकं चोरम् । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (पा ५,२,८९) इति इनिप्रत्ययान्तो निपातितः। मृगम् व्याघ्रादिकं च नुदन् हिंसन् ईशानः ईश्वरो नियन्ता स इन्द्रः मह्यम् वणिजे धनदाः वाणिज्यलाभरूपधनप्रदाता अस्तु भवतु । ईशान इति । ईश ऐश्वर्ये । अदादित्वात् शपो लुक् । अनुदात्तेत्त्वात् 'लसार्वधातुक' (पा ६,१,१८३ ) इति अनुदात्तत्वे धातुस्वरः। धनदाः। ददातेः 'आतो मनिन्” (पा ३,२,७४) इति विच्प्रत्ययः ।
ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति।
ते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ।।२।।
ये । पन्थानः । बहवः । देवऽयानाः । अन्तरा । द्यावापृथिवी इति। सम्ऽचरन्ति ।
ते । मा। जुषन्ताम् । पय॑सा । घृतेन । यथा । क्रीत्वा । धनम् । आऽहराणि ॥२॥
ते प्रसिद्धा देवयानाः देवा यान्ति येष्विति देवयानाः । अधिकरणे ल्युट् । 'देवानुकूल्ययुक्ता इत्यर्थः। यद्वा दीव्यन्ति व्यवहरन्तीति देवा वणिजः । ते यत्र यान्ति ते देवयानाः । प्रहता इत्यर्थः । ईदृशा बहवः बहुदेशसंबन्धिनो ये पन्थानः मार्गाः द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये संचरन्ति वर्तन्ते । द्यौश्च पृथिवी च द्यावापृथिव्यौ । 'दिवो द्यावा' 'दिवसश्च पृथिव्याम्' (पा ६,३,२९,३०) इति द्यावादेशः । 'वा च्छन्दसि' (पा ६,१,१०६) इति पूर्वसवर्णदीर्घः । 'नोत्तरपदेऽनुदात्तादौ' (पा ६,२,१४२) इति प्रतिषेधस्य अपृथिवीरुद्रपूषमन्थिषु' इति पर्युदस्तत्वाद् ‘देवताद्वन्द्वे च' (पा ६,२,१४१) इत्युभयपदप्रकृतिस्वरत्वम् । 'अन्तरान्तरेण युक्ते' (पा २,३,४) इति द्वितीया । ते मार्गाः पयसा घृतेन च मा मां जुषन्ताम् सेवन्ताम् । मार्गश्रमनिवर्तकक्षीरघृतोपलक्षितान्नपानोपेता भवन्तु इत्यर्थः । यथा येन प्रकारेण अहं क्रीत्वा पण्यं विक्रीय धनम् लाभसहितं मूल्यधनम् आहराणि स्वगृहं प्रापयाणि । तथा जुषन्ताम् इति संबन्धः । हरतेः प्रार्थनायां लोट् ।
इ॒ध्मेना॑ग्न इ॒छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य।
याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ।।३।।
इध्मेन । अग्ने । इच्छमानः । घृतेन । जुहोमि । हव्यम् । तरसे । बलाय ।
यावत् । ईशे । ब्रह्मणा । वन्दमानः । इमाम् । धियम् । शतऽसेयाय । देवीम् ॥ ३ ॥
हे अग्ने इच्छमानः वाणिज्यलाभं कामयमानः । इषु इच्छायाम् । व्यत्ययेन शानच् । 'इषुगमियमां छः' (पा ७, ३,७७) इति छादेशः। अदुपदेशाल्लसार्वधातुक' (पा ६,१, १८६ ) इति अनुदात्तत्वे 'शप्रत्ययस्वरः । सोहम् इध्मेन इन्धनसाधनेन समित्समूहेन घृतेन आज्येन च सह हव्यम् हविः जुहोमि । किमर्थम् । तरसे वेगाय शीघ्रगमनाय बलाय शरीरसामर्थ्याय च । ब्रह्मणा मन्त्रेण स्तोत्ररूपेण वन्दमानः त्वां स्तुवन् देवीम् द्योतमानां व्यवहारकुशलाम् इमाम् मदीयां धियम् बुद्धिं शतसेयाय। शतम् इति अपरिमितनाम । असंख्यातधनलाभाय यावद् अहम् ईशे शक्नोमि लब्धुम् । तावज्जुहोमीति संबन्धः । यद्वा यावद् अहम् ईशे ईश्वरो धनाढ्यो भवामि तावत् स्तोत्रेण स्तुवन् द्योतमानाम् इमां धियम्। धीरिति कर्मनाम । इदम् वाणिज्यलाभनिमित्तं होमलक्षणं कर्म। करोमीति शेषः। ईश इति । ईश ऐश्वर्ये । लटि उत्तमैकवचने अनुदात्तेत्वात् लसार्वधातुक' (६,१,१८६) इति अनुदात्तत्वे धातुस्वरः । ‘यावद्यथाभ्याम्' (पा ८,१,३६) इति निघातप्रतिषेधः । शतसेयायेति । षणु दाने । व्यत्ययेन यत्प्रत्यये 'ये विभाषा' (पा ६,४,४३) इत्यात्वे 'ईद्यति' (पा ६,४,६५) इति ईत्वे गुणः । 'यतोऽनावः' (पा ६,१,२१३ ) इत्याद्युदात्तत्वे धातुस्वरः। समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा धातूनाम् अनेकार्थत्वात् षो अन्तकर्मणि इत्यस्मादेव यत्प्रत्ययः ।
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्।
शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः प॒लिनं॑ मा कृणोतु।
इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ।।४।।
इमाम् । अग्ने । शरणिम् । मीमृषः । नः । यम् । अध्वानम् । अगाम । दूरम् ।
शुनम् । नः । अस्तु । प्रपणः । विऽक्रयः । च । प्रतिऽपणः । फ़लिनम् । मा । कृणोतु ।
इदम् । हव्यम् । सम्ऽविदानौ । जुषेथाम् । शुनम् । नः । अस्तु । चरितम् । उत्थितम् । च ॥
हे अग्ने नः अस्माकम् इमां शरणिम् प्रवासनिबन्धनां व्रतलोपलक्षणां हिंसां मीमृषः क्षमस्व । मृष तितिक्षायाम्। स्वार्थिको णिच् । छन्दसो लुङ्। यम् अध्वानम् मार्गं दूरम् अगाम गतवन्तः स्मः । तदध्वगमनजनिताम् इमां शरणिम् इति पूर्वत्रान्वयः । इण् गतौ । लुङि 'इणो गा लुङि' (पा २,४,४५) इति गादेशः। यद्वा यम् अध्वानं दूरम् अगाम इमां शरणिम् । वर्णव्यत्ययः। इमम् अध्वानम् नः अस्मान् मीमृषः मर्षय तितिक्ष । तज्जनितदुःखनिवर्तने सह्यं कुर्वित्यर्थः । प्रपणः । व्यवहर्तुं पण्यद्रव्यस्य परिमाणकल्पनम् । विक्रयः तस्यैव सलाभमूल्यस्वीकारेण परेषां प्रदानम् । तद् उभयमपि नः अस्माकं शुनम् सुखं यथा भवति तथा अस्तु भवतु । प्रपण इति । पण व्यवहारे इत्यस्मात् 'नित्यं पणः परिमाणे' (पा ३,३,६६) इति अच्प्रत्ययः। विक्रय इति । क्रीणातेः ‘एरच्' (पा३,३,५६ ) इति अच्प्रत्ययः । तथा प्रतिपणः । प्रत्यानेतुं परद्रव्यस्य परिमाणकल्पनं प्रतिपण इत्युच्यते । सोपि मा माम् । फलिनम् प्रभूतलाभोपेतं कृणोतु करोतु।
इन्द्राग्न्योः प्रकृतत्वात् तावेवात्र प्रयुक्तौ प्रार्थ्यते - हे इन्द्राग्नी युवां संविदानौ संजानानौ ऐकमत्यं गतौ । संपूर्वाद् वेत्तेरकर्मकात् 'समो गमादिषु विदिप्रच्छि' (पावा १,३,२९ ) इत्यात्मनेपदम् । अदादित्वात् शपो लुक् । इदम् मया हूयमानं हव्यम् हविः जुषेथां सेवेथाम् । युवयोः प्रसादात् नः अस्माकं चरितम् आचरितं विक्रयादिकम् उत्थितम् तस्माद् व्यवहाराद् उत्पन्नं लाभयुक्तं धनं च शुनम् सुखम् अस्तु ।
येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒छमा॑नः।
तन्मे॒ भूयो॑ भवतु॒ मा कनी॒यो ऽग्ने॑ सात॒घ्नो दे॒वान्ह॒विषा॒ नि षे॑ध ।।५।।
येन । धनेन । प्रऽपणम् । चरामि । धनेन । देवाः । धनम् । इच्छमानः ।
तत् । मे । भूयः । भवतु । मा । कनीयः । अग्ने । सातऽघ्नः । दे॒वान् । हविषा । नि । सेध ॥५॥
हे देवाः धनेन मूल्यधनेन धनम् वृद्धियुक्तं धनम् इच्छमानः कामयमानोहं येन धनेन प्रपणम् व्यवहर्तुं परिमाणकल्पनं चरामि करोमि । तदपि शुनम् अस्तु इति पूर्वेण संबन्धः । हे अग्ने सातघ्नः सातं लाभः। षणु दाने इत्यस्माद् भावे निष्ठा । 'जनसनखनां सञ्झलोः' (पा ६,४,४२) इति आत्वम् । सातं लाभं घ्नन्तीति सातघ्नः। 'बहुलं छन्दसि' (पा ३,२,८८) इति हन्तेः क्विप्। शसि “अल्लोपोऽनः' (पा ६,४,१३४ ) इत्युपधालोपः । 'हो हन्तेः” ( पा ७,३,५४ ) इति घत्वम् । लाभप्रतिबन्धकान् देवान् हविषा हूयमानेन नि षेध परितोष्य निवारय । षिधु गत्याम् । भौवादिकः । 'उपसर्गात् सुनोति' (पा ८,३,६५) इत्यादिना षत्वम् । हे देवाः युष्मत्प्रसादात् तन्मे मदीयं धनं भूयः बहुतरं भवतु । कनीयः अल्पतरं मा भवतु । भूय इति । बहुशब्दाद् ईयसुनि ‘बहोर्लोपो भू च बहोः' (पा ६,४,१५८) इति ईयस आदेर्लोपः बहोर्भूभावश्च । कनीय इति । 'युवाल्पयोः कनन्यतरस्याम्' (पा ५,३,६४ ) इति अल्पशब्दस्य कन् आदेशः।
येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒छमा॑नः।
तस्मि॑न्म॒ इन्द्रो॒ रुचि॒मा द॑धातु प्र॒जाप॑तिः सवि॒ता सोमो॑ अ॒ग्निः ।।६।।
येन । धनेन । प्रऽपणम् । चरामि । धनेन । देवाः । धनम् । इच्छमानः ।
तस्मिन् । मे । इन्द्रः । रुचिम् । आ । दधातु । प्रजापतिः । सविता । सोमः । अग्निः ॥६॥
येन धनेन इत्यादि पूर्ववत् । येनेति यत् प्रकृतं धनं तस्मिन् मे मदीये धने रुचिम् सर्वजनप्रीतिं धनप्रदानेन आदानेच्छाम् इन्द्र आ दधातु स्थापयतु । तथा प्रजापत्यादयश्च रुचिं कुर्वन्तु।
उप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः।
स नः॑ प्र॒जास्वा॒त्मसु॒ गोषु॑ प्रा॒णेषु॑ जागृहि ।।७।।
उप । त्वा । नमसा । वयम् । होतः । वैश्वानर । स्तुमः ।
सः । नः । प्रऽजासु । आत्मऽसु । गोषु । प्राणेषु । जागृहि ॥ ७ ॥
हे होतः देवानाम् आह्वातः वैश्वानर विश्वनरहित अग्ने त्वा त्वां वयं नमसा हविर्लक्षणेन अन्नेन सह उप स्तुमः उपेत्य स्तोत्रं कुर्मः । स स्तुतस्त्वं नः अस्माकं प्रजासु पुत्रपौत्रादिलक्षणासु आत्मसु अस्मासु गोषु अस्मदीयेषु पशुषु प्राणेषु च जागृहि बुध्यस्व । प्रजादिषु दुःखलेशोपि यथा न प्राप्नोति तथा रक्षन् अवहितो वर्तस्वेत्यर्थः।
वि॒श्वाहा॑ ते॒ सद॒मिद्भ॑रे॒माश्वा॑येव॒ तिष्ठ॑ते जातवेदः।
रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ।।८।।
विश्वाहा । ते । सदम् । इत् । भरेम । अश्वायऽइव । तिष्ठते । जातऽवेदः।।
रायः । पोषेण । सम् । इषा । मदन्तः । मा । ते । अग्ने । प्रतिऽवेशाः। रिषाम ॥८॥
हे जातवेदः जातानां वेदितरग्ने तिष्ठते स्वगृहे नित्यं वर्तमानाय ते तुभ्यं विश्वाहा सर्वाण्यहानि। अत्यन्तसंयोगे द्वितीया। सदमित् सदैव भरेम हरेम । हविरिति शेषः। तत्र दृष्टान्तः - अश्वायेव स्वगृहे वर्तमानाय अश्वाय कालेकाले यथा घासः प्रदीयते तद्वत् । हे अग्ने ते तव प्रतिवेशाः परिचरणादिना प्रत्यासन्ना वयं रायः धनस्य पोषेण समृद्ध्या इंषा इष्यमाणेन अन्नेन च सं मदन्तः संमाद्यन्तो हृष्यन्तः । व्यत्ययेन शप् । मा रिषाम विनष्टा मा भूम । रुष रिष हिंसायाम् । पुषादित्वात् च्लेरङादेशः।
इति तृतीयकाण्डे तृतीयेऽनुवाके पञ्चमं सूक्तम् ।
समाप्तश्च तृतीयोऽनुवाकः।
टिप्पणी
इस “धी' को प्राप्त करने का अभिप्राय है एक दूरगामी अध्वा (मार्ग) पर यात्रा करना, जहां वह प्रपण, विक्रय और प्रतिपण को समाविष्ट करने वाले वाणिज्य के सफल होने की कामना करता है और चाहता है कि उसका गमन और उत्थान सुखमय हो -
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम्।
शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु।
इदं हव्यं संविदानो जुषेथां शुनं नो अस्तु चरितमुत्थितं च ।।-अथ.३.१५.४
इस मन्त्र में जिन देवों से हव्य स्वीकार करने के लिए गमन तथा उत्थान को सुखमय करने के लिए प्रार्थना की गई है वे आत्मा के ज्ञानपरक तथा क्रियापरक पक्ष हैं जिनको क्रमशः अग्नि तथा इन्द्र रूप में कल्पित किया जाता है। जिस धन के द्वारा और अधिक धन पाने के लिए प्रपण (वाणिज्य) किया जाता है वह धन वही ब्रह्मानंद-रस-रूप वाम है। इसलिए प्रार्थना की जाती है कि इन्द्र,सविता, प्रजापति, सोम और अग्नि साधक के इस व्यापार में रुचि बढ़ावें -
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।
तन्मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान्हविषा नि षेध।। अथ.३.१५.५
यह वाणिज्य कर्म वस्तुतः एक आध्यात्मिक व्यापार है। इसमें इन्द्र ही वणिक् है जो आत्मा के क्रियापरक पक्ष का प्रतीक है और "पुरएता” (नेता) होकर मार्ग के शत्रुओं और बाधाओं का विनाश करता हुआ आध्यात्मिक धन को देने वाला कहा जाता है -
इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।
नुदन्नरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम्।। अथ.३.१५.१
यह व्यापार उन अनेक देवयान मार्गों पर होता है जो मनुष्य के आन्तरिक जगत् में विद्यमान हैं और जिनसे पयस् और घृत (मानसिक और अति मानसिक सुख) की उपलब्धि तथा विक्रय करके आध्यात्मिक धन को संगृहीत किया जा सकता है-
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति।
ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ।। अथ.३.१५.२
इस व्यापार को करने वाले मनुष्य के वे प्राण हैं जिनको पहले 'विशः आर्याः" कहा गया है। यह अन्तर्मुखी प्रवेश करने के कारण "विशः' कहे जाते हैं और श्रेष्ठ होने के कारण आर्य । इन पर आधिपत्य रखने वाला वैश्वानर अग्नि है जो उक्त सोम-याग-रूप वाणिज्य का स्वामी “होता” है और जिससे प्रार्थना की जाती है कि वह हमारी प्रजाओं (प्रकृष्ट इच्छाओं, विचारों, क्रियाओं ) आत्माओं,ज्ञान-शक्तियों तथा प्राणों में जागरूक रहे -
उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।
स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ।। अथ.३.१५.७
“विशः आर्याः" द्वारा होने वाले उक्त वाणिज्य के अतिरिक्त एक अनार्य प्राणों द्वारा होने वाले व्यापार का भी वेद में उल्लेख है। आर्य व्यापार में जहां प्रपणन और प्रतिपणन होता है वहां अनार्यव्यापार को पणन कहा जाता है और उसको करने वाले "पणयः ' कहे जाते हैं जो वस्तुतः अनार्य अथवा आसुरी प्राणों के प्रतीक हैं। ये पणयः ' नामक असुर देवों की गायों को चुराने वाले तस्कर हैं । - वेदों में अन्तरिक्ष पर्यायों का प्रतीकवाद (अरुणा शुक्ला)