← सूक्तं ३.१६ अथर्ववेदः - काण्डं ३
सूक्तं ३.१७
विश्वामित्रः।
सूक्तं ३.१८ →
दे. सीता। अनुष्टुप्, १ आर्षी गायत्री, २, ५, ९ त्रिष्टुप्, ३ पथ्यापङ्क्तिः, ७ विराट् पुर उष्णिक्, ८ निचृत्।

सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्।
धीरा देवेषु सुम्नयौ ॥१॥
युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।
विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥२॥
लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु ।
उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥३॥
इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु ।
सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥४॥
शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् ।
शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥५॥
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥६॥
शुनासीरेह स्म मे जुषेथाम् ।
यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥७॥
सीते वन्दामहे त्वार्वाची सुभगे भव ।
यथा नः सुमना असो यथा नः सुफला भुवः ॥८॥
घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः ।
सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥९॥

सायणभाष्यम्

'सीरा युञ्जन्ति' इति द्वितीयसूक्तेन कृषिनिष्पत्तिकर्मणि क्षेत्रं गत्वा युगलाङ्गलं बध्नाति । अनेनैव सूक्तेन दक्षिणम् अनड्वाहं युगे युनक्ति । ततः कर्ता अनेन सूक्तेन प्राचीनं कृषन् सूक्तसमाप्त्यनन्तरं हालिकाय हलं प्रयच्छेत् । तेन तिसृषु सीतासु कृष्टासु उत्तरसीतान्ते अग्निम् उपसमाधाय अनेन सूक्तेन पुरोडाशेन इन्द्रम् स्थालीपाकेन अश्विनौ च यजन् उत्तरस्यां सीतायां संपातान् आनयेत् । ।

तथा वृषलाभकर्मणि सारूपवत्से ओदने शकृत्पिण्डगुग्गुलुलवणानि प्रक्षिप्य अनेन सूक्तेन संपात्य अभिमन्त्र्य अश्नाति ।

'सीते. वन्दामहे' इत्यृचा हालिकेन कृष्यमाणास्तिस्रः सीताः कर्ता प्रत्येकम् अनुमन्त्रयते । अत्र “ 'सीरा युञ्जन्ति' इति युगलाङ्गलं प्रतनोति दक्षिणम् उष्टारं प्रथमं युनक्ति" इत्यादि ‘अनडुत्सांपदम्' ( कौसू २०,१-२६ ) इत्यन्तं कौशिकसूत्रं द्रष्टव्यम् ।

तथा अद्भुतशान्तौ सीतामध्ये लाङ्गलसंसर्गे पुच्छसंसर्गे वा एतत् सूक्तं शान्त्युदके अनुयोजनीयम्। 'अथ यत्रैतल्लाङ्गले संसृजतः' इत्यादि कौशिकसूत्रम् ‘शुनासीराण्यनुयोजयेत्' (१०६,१-८) इत्यन्तम् ।

यज्ञवास्तुसंस्कारकर्मणि 'इन्द्रः सीतां नि गृह्णातु' (४) इति नवाग्निस्थापनदेशे उल्लेखनं कार्यम् । तत्प्रकारश्च कौशिकेन दर्शितः-- 'यथावितानं यज्ञवास्त्वध्यवस्येत्' इति प्रक्रम्य “ 'देवस्य त्वा सवितुः' (अ १९,५१,२) इति विमानकाष्ठं गृह्णाति । यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति । 'इन्द्रः सीतां निगृह्णातु' इति दक्षिणत आरभ्योत्तरत आलिखति" (कौसू १३७, १-१९) इत्यादिना।

अग्निचयनकर्मणि अग्निक्षेत्रकर्षणाय युज्यमानं सीरं 'सीरा युञ्जन्ति' इति ब्रह्मा अनुमन्त्रयते । 'लाङ्गलं पवीरवत्' (३) इति कर्षणावस्थस्य लाङ्गलस्यानुमन्त्रणम् । 'कृते योनौ' (२) इति तस्मिन् कृष्टक्षेत्रे ओषधीरावपन्तम् अध्वर्युम् अनुमन्त्रयेत । तथा च वैतानं सूत्रम् -– “ सीरा युञ्जन्ति' इति सीरं युज्यमानम्” (वैताश्रौ २८,३०) इत्यादि।


सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क्।

धीरा॑ दे॒वेषु॑ सुम्न॒यौ ।।१।।

सीरा । युञ्जन्ति । कवयः । युगा। वि । तन्वते । पृथक् ।

धीराः । देवेषु । सुम्नऽयौ ॥१॥

कवयः । मेधाविनामैतत् । मेधाविनो जनाः सीरा सीराणि लाङ्गलानि । 'शेश्छन्दसि" (पा ६,१,७० ) इति शेर्लोपः। युञ्जन्ति कर्षणार्थं योजयन्ति । धीराः धीमन्तस्ते युगा युगानि च पृथक् वि तन्वते बलीवर्दानां स्कन्धेषु प्रसारयन्ति । किमर्थम् । देवेषु देवविषये सुम्नयौ सुखकरयज्ञेच्छौ सति । यजमाने इत्यर्थः । 'यज्ञो वै सुम्नं धीरा देवेषु यज्ञं तन्वानाः' (माश ७,२,२,४ ) इति वाजसनेयकम् । 'छन्दसि परेच्छायाम्' (पावा ३,१,८) इति सुम्नशब्दात् क्यच् । 'न च्छन्दस्यपुत्रस्य' ( पा ७,४,३५ ) इति ईत्वदीर्घयोर्निषेधः। 'क्याच्छन्दसि' (पा ३,२,१७० ) इति उप्रत्ययः। यद्वा देवविषये सुम्नं सुखकरं हविर्लक्षणम् अन्नं यातः प्रापयत इति सुम्नयौ बलीवर्दौ । तौ च युञ्जन्तीति संबन्धः । यातेः 'आतो मनिन्” (पा ३,२,७४ ) इति विच् ।


यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्।

वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमा य॑वन् ।।२।।

युनक्त । सीरा । वि । युगा । तनोत । कृते । योनौ । वपत । इह । बीजम् ।

विऽराजः । श्नुष्टिः । सऽभराः । असत् । नः । नेदीयः । इत् । सृण्यः । पक्कम् । आ। यवन् ॥२॥

हे कृषीवलाः सीरा युनक्त सीराणि लाङ्गलानि युगैः सह योजयत । तथा युगा वि तनोत युगानि बलीवर्दानां स्कन्धेषु प्रसारयत । अपि च योनौ अङ्कुरोत्पत्तियोग्ये इह अस्मिन् कृते कृष्टक्षेत्रे बीजम् व्रीहियवादिकं वपत । विराजः अन्नस्य व्रीहियवादिरूपस्य । 'अन्नं वै विराट्' (तैब्रा ३,८,१०,४) इति श्रुतेः । श्नुष्टिः आशुप्रापकः स्तम्बः सभराः फलभारसहितः नः अस्माकम् असत् भवतु । अस्तेर्लेटि अडागमः । सफलं व्रीह्यादिकं नेदीय इत् अन्तिकतमम् अल्पेनैव कालेन पक्वम् परिणतफलोपेतं सत् सृण्यः। द्वितीयार्थे षष्ठी । सृणिम् अङ्कुशं लवनसाधनं दात्रादिकम् आ यवम् आयौतु प्राप्नोतु । यौतेश्छान्दसे लङि 'तिङां तिङो भवन्ति' (पावा ७,१,३९) इति तिपो मिप् । 'यदा वा अन्नं पच्यतेथ तत्सृण्योपचरन्ति' (माश ७,२,२,५) इति वाजसनेयकम् ।


लाङ्ग॑लं पवी॒रव॑त्सु॒शीमं॑ सोम॒सत्स॑रु।

उदिद्व॑पतु॒ गामविं॑ प्र॒स्थाव॑द्रथ॒वाह॑नं॒ पीब॑रीं च प्रप॒र्व्य॑म् ।।३।।

लाङ्गलम् । पवीरऽवत् । सुऽशीमम् । सोमसत्ऽसरु ।

उत् । इत् । वपतु । गाम् । अविम् । प्रस्थाऽवत् । रथऽवाहनम् । पीबरीम् । च । प्रऽफर्व्यम्॥३॥

पवीरवत् पवीरं पविर्वज्रम् । स्वार्थिको रप्रत्ययः । यद् वज्रमिव निशितधारं लाङ्गलाग्रे प्रोतं सदयोमयं शल्यं भूमिं विपाटयति तत्सहितम् । पविशब्दात् 'कृदिकारादक्तिनः' (पाग ४,१,४५) इति ङीष् । सुशीमम् कर्षकस्य सुखकरं सोमसत्सरु व्रीह्यादिसंपादनद्वारा सोमयागनिष्पादकः त्सरुः भूमौ प्रच्छन्नगमनम् कर्षकहस्तग्राह्योऽवयवविशेषो वा यस्य तत् तथोक्तम्। त्सर छद्मगतौ इत्यस्मात् 'भृमृशीतॄचरित्सरि' (पाउ १,७) इत्यादिना उप्रत्ययः । एवंगुणविशिष्टं लाङ्गलम् उदिद् वपतु । इद् इत्यवधारणे। उद्धरतु । संपादयतु इत्यर्थः। किं तद् इत्याह-–गाम् अविं च प्रस्थावत् प्रस्थानयुक्तं गमनसमर्थम् । प्रपूर्वात् तिष्ठतेः 'आतश्चोपसर्गे' (पा ३,३,१०६) इति भावे अङ् । रथवाहनम् रथवाहनसमर्थम् अश्वबलीवर्दादिकं पीवरीम् स्थूलां सर्वकामसमर्थां प्रफर्व्यम्। प्रथमवयाः कन्या प्रफर्वी ताम् । ‘वा छन्दसि' (पा ६,१,१०६) इति अभिपूर्वत्वस्य विकल्पनाद् यण् । कर्षणेन धान्यादिसमृद्धौ सत्याम् एतद्भवादिसमृद्धिर्भवतीति भावः।


इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षाभि र॑क्षतु।

सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ।।४।।

इन्द्रः । सीताम् । नि । गृह्णातु । ताम् । पूषा । अभि । रक्षतु ।

सा । नः । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥ ४ ॥

इन्द्रो देवः सीताम् लाङ्गलपद्धतिं नि गृह्णातु नीचीनं गृह्णातु । तां पूषा पोषको देवः अभि रक्षतु सर्वतः पालयतु । सा सीता नः अस्मभ्यं पयस्वती। पय इत्युपलक्षितम् अभिमतफलम । तद्युक्ता सती उत्तरामुत्तरां समाम् उत्तरोत्तरं संवत्सरम् । अत्यन्तसंयोगे द्वितीया । सर्वेष्वपि कालेषु इत्यर्थः । दुहाम् दुग्धाम् । अभिमतफलम् इति शेषः । यद्वा पयस्वती उदकवती सती दुहाम् व्रीहियवादिसस्यानि दुग्धाम् उत्तरोत्तरं संवत्सरम् इति द्विकर्मकः। 'अकथितं च' (पा १,४,५१) इति कर्मसंज्ञा । दुहाम् इति । 'लोपस्त आत्मनेपदेषु' (पा ७,१,४१) इति तलोपः।


शु॒नं सु॑पा॒ला वि तु॑दन्तु॒ भूमिं॑ शु॒नं की॒नाशा॒ अनु॑ यन्तु वा॒हान्।

शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तम॒स्मै ।।५।।

शुनम् । सुऽफालाः। वि। तुदन्तु । भूमिम् । शुनम् । कीनाशाः । अनु । यन्तु । वाहान् ।

शुनासीरा । हविषा । तोशमाना । 'सुऽपिप्पलाः । ओषधीः । कर्तम् । अस्मै ॥५॥

सुफालाः शोभनानि लाङ्गलमुखानि अस्माकं शुनम् सुखं यथा भवति तथा भूमिं वि तुदन्तु विकृषन्तु । कीनाशाः कर्षकाः शुनं यथा भवति तथा वाहान् बलीवर्दान् अनु यन्तु अनुगच्छन्तु । वाह्यन्त इति वाहाः । कर्मणि घञ् । 'कर्षात्वतो घञोन्त उदात्तः' (पा ६,१,१५९) इति अन्तोदात्तत्वम् । शुनासीरा हे शुनासीरौ वाय्वादित्यौ । 'शुनो वायुः सीर आदित्यः' इति हि यास्कः ( नि ९,४०)। यद्वा शुनः सुखकरो देवः । सीरो लाङ्गलाभिमानी देवः । तौ युवां हविषा अस्मदीयेन तोषमाणा तोषमाणौ तुष्यन्तौ अस्मै यजमानाय ओषधीः व्रीहियवाद्याः सुपिप्पलाः शोभनफलोपेताः कर्तम् कुरुतम् ।


शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्।

शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ।।६।।

शुनम् । वाहाः । शुनम् । नरः । शुनम् । कृषतु । लाङ्गलम् ।

शुनम् । वरत्राः । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥ ६ ॥

वाहाः बलीवर्दाः शुनम् सुखं कृषन्तु । नरः कर्षकाः शुनम् सुखं कृषन्तु । लाङ्गलम् हलं शुनं यथा भवति तथा कृषतु। कृष विलेखने। तौदादिकः। वरत्राः रज्जवः शुनम् सुखं बध्यन्ताम् । अष्ट्राम् प्रतोदं शुनम् सुखार्थम् उदिङ्गय प्रेरय । अत्र शुनासीरयोर्मध्ये शुनः संबोध्यः।


शुना॑सीरे॒ह स्म॑ मे जुषेथाम्।

यद्दि॒वि च॒क्रथुः॒ पय॒स्तेनेमामुप॑ सिञ्चतम् ।।७।।

शुनासीरा । इह । स्म । मे। जुषेथाम् ।

यत् । दिवि । चक्रथुः । पयः । तेन । माम् । उप । सिञ्चतम् ॥ ७ ॥

'शुनासीरा शुनासीरौ देवी इह स्म इह खलु अस्मिन् क्षेत्रे मे मदीयं हविः "जुषेताम् सेवेताम् । यत् तौ देवौ दिवि आकाशे पयः उदकं 'चक्रतुः कृतवन्तौ तेन वृष्टिजलेन इमाम् कृष्यमाणां भूमिम् उप 'सिञ्चताम् आर्द्रींकुरुताम् ।


सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव।

यथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुप॒ला भुवः॑ ।।८।।

सीते । वन्दामहे । त्वा । अर्वाची । सुऽभगे । भव ।

यथा । नः । सुऽमनाः । असः । यथा । नः । सुऽफला । भुवः ॥८॥

हे सीते त्वा त्वां वन्दामहे नमस्कुर्मः। हे सुभगे सुभाग्ये सीताभिमानिदेवते त्वम् अर्वाची अस्मदभिमुखी भव । यथा येन प्रकारेण नः अस्माकं सुमनाः शोभनमनस्का असः स्याः। यथा येन प्रकारेण नः अस्माकं सुफला शोभनफलोपेता भुवः भवेः। तथा अर्वाची भवेति संबन्धः । अस्तेर्भवतेश्च लेटि अडागमः । शब्लुकि 'भूसुवोस्तिङि' (पा ७,३,८८ ) इति गुणप्रतिषेधे उवङ् ।


घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑।

सा नः॑ सीते॒ पय॑सा॒भ्याव॑वृ॒त्स्वोर्ज॑स्वती घृ॒तव॒त्पिन्व॑माना ।।९।।

घृतेन । सीता । मधुना । सम्ऽअक्ता । विश्वैः । देवैः । अनुऽमता । मरुत्ऽभिः।

सा । नः । सीते। पयसा । अभिऽआववृत्स्व । ऊर्जस्वती । घृतऽवत् । पिन्वमाना ॥ ९ ॥

घृतेन उदकेन मधुना मधुररसेन समक्ता सम्यग् अक्ता सिक्ता । ‘गतिरनन्तरः' (पा ६,२,४९ ) इति गतेः प्रकृतिस्वरत्वम् । सा सीता विश्वैर्देवैः मरुद्भिः च अनुमता अङ्गीकृता । हे सीते सा त्वं पयसा उदकेन नः अस्मान् अभ्याववृत्स्व अभिमुखम् आवर्तस्व । 'बहुलं छन्दसि' (पा २,४,७६ ) इति वृतेः शपः श्लुः। कथंभूता। ऊर्जस्वती बलोपेता घृतवत् घृतयुक्तम् अन्नं पिन्वमाना सिञ्चन्ती । पिवि सेचने। व्यत्ययेन आत्मनेपदम् । अदुपदेशाल्लसार्वधातुक' (पा ६,१,१८६) इति अनुदात्तत्वे धातुस्वरः।

इति चतुर्थेऽनुवाके द्वितीयं सूक्तम् ॥