← सूक्तं ३.३१ अथर्ववेदः - काण्डं ४
सूक्तं ४.२
वेनः
सूक्तं ४.०२ →
दे. बृहस्पतिः, आदित्यः। त्रिष्टुप्, २, ५ पुरोऽनुष्टुप्।

4.1
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः ।
तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥२॥
प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति ।
ब्रह्म ब्रह्मण उज्जभार मध्यान् नीचैरुच्चैः स्वधा अभि प्र तस्थौ ॥३॥
स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्।
महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः ॥४॥
स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्।
अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥५॥
नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम ।
एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु ॥६॥
योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात्।
त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥७॥