← सूक्तं ४.२ अथर्ववेदः - काण्डं ४
सूक्तं ४.३
अथर्वा
सूक्तं ४.४ →
दे. व्याघ्रादयः

अनेन सूक्तेन गवादीनां व्याघ्रचोरादिभयनिवृत्त्यर्थं खादिरं शङ्कुं संपात्य अभिमन्त्र्य तेन गोसंचारभूमिं लिखन् गा अनुव्रजेत्। तथा अनेन उदघटम् अभिमन्त्र्य गोप्रचारदेशे निनयेत्। ततः पांसुकूटं तत्र कृत्वा अर्धं दक्षिणहस्तेन विक्षिपेत्। (कौ.सू. ५१.१)

4.3
उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः ।
हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥१॥
परेणैतु पथा वृकः परमेणोत तस्करः ।
परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥२॥
अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि ।
आत्सर्वान् विंशतिं नखान् ॥३॥
व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि ।
आदु ष्टेनमथो अहिं यातुधानमथो वृकम् ॥४॥
यो अद्य स्तेन आयति स संपिष्टो अपायति ।
पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥५॥
मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः ।
निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥६॥
यत्संयमो न वि यमो वि यमो यन् न संयमः ।
इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम् ॥७॥


सम्पाद्यताम्

व्याघ्रोपरि टिप्पणी