← सूक्तं ४.०५ अथर्ववेदः - काण्डं ४
सूक्तं ४.६
गरुत्मान्
सूक्तं ४.०७ →
दे. तक्षकः, १ ब्राह्मणः, २ द्यावापृथिवी, सप्तसिन्धवः, ३ सुपर्णः, ४-८ विषम्। अनुष्टुप्।
तक्षकमूर्तिः

ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः ।
स सोमं प्रथमः पपौ स चकारारसं विषम् ॥१॥
यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे ।
वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥२॥
सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत्।
नामीमदो नारूरुप उतास्मा अभवः पितुः ॥३॥
यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः ।
अपस्कम्भस्य शल्यान् निरवोचमहं विषम् ॥४॥
शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः ।
अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम् ॥५॥
अरसस्त इषो शल्योऽथो ते अरसं विषम् ।
उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥६॥
ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् ।
सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥७॥
वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे ।
वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥८॥

सायणभाष्यम्

'ब्राह्मणो जज्ञे', 'वारिदम्' इत्याभ्यां कन्दविषभैषज्यार्थम् उदकम् अभिमन्त्र्य विषावृतं पुरुषं पाययेत् । तथाविधोदकेन प्रोक्षेत् ।
तथा कृमुकवृक्षशकलं सहोदकम् अभिमन्त्र्य पाययेत् प्रोक्षेच्च ।
तथा आभ्यां जीर्णहरिणचर्मावज्वालितं पतितमार्जनिकाशकलैर्वा अवज्वालितम् उदकम् आभ्याम् अभिमन्त्र्य तेनोदकेन विषावृतम् अवसिञ्चेत् ।
तथा आभ्यां सूक्ताभ्याम् उदपात्रं संपात्य अभिमन्त्र्य तेन प्लावयेत् ।
तथा विषलिप्ताभ्याम् ऊर्ध्वफलाभ्यां सक्तुमन्थं मथित्वा अभिमन्त्र्य पाययेत् ।
तथा मदनफलानि प्रत्यृचम् अभिमन्त्र्य यथा छर्दिर्भवति तथा प्रत्यृचं भक्षयेत् । सर्पिषा सहितां हरिद्राम् अनेनैवाभिमन्त्र्य आविष्टविषं पाययेत् ।
सूत्रितं हि - " 'ब्राह्मणो जज्ञे' इति तक्षकायाञ्जलिं कृत्वा जपन्नाचामयति अभ्युक्षति । कृमुकशकलं 'संक्षुद्य "दूर्शजरदजिनावकरज्वालेन। संपातवद् उदपात्रम् ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थम् उपमथ्य रयिधारणपिण्डान् अन्वृचं प्रकीर्य छदयते। हरिद्रां सर्पिषा पाययति" (कौसू २८, १-४.) इति।
अत्र 'ब्राह्मणो जज्ञे' इति एकसूक्तप्रतीकोपादानेन विषापनोदनपरं 'वारिदम्' इति समनन्तरं सूक्तमपि गृह्यते । 'ग्रहणम् आ ग्रहणात्' (कौसू ८,२१ ) इति परिभाषायाः सौत्रक्रम इव संहिताक्रमेपि प्रवृत्तिरस्तीति व्याख्यातृभिरभिहितत्वात् ।


ब्रा॑ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः।
स सोमं॑ प्रथ॒मः प॑पौ॒ स च॑कारार॒सं वि॒षम् ।।१।।
ब्राह्मणः । जज्ञे । प्रथमः । दशऽशीर्षः । दशऽआस्यः ।
सः । सोमम् । प्रथमः । पपौ । सः । चकार । अर॒सम् । विषम् ॥ १ ॥
मनुष्यजातिवत् सर्पजातावपि चातुर्वर्ण्यम् अस्ति। तत्र प्रथमः सर्पजातीयानां आदिभूतस्तक्षकाख्यो ब्राह्मणः ब्राह्मणजातिः जज्ञे उत्पन्नः । स विशेष्यते-दशशीर्षः दशसंख्यानि शीर्षाणि शिरांसि यस्य स तथोक्तः । अत एव दशास्यः दशमुखः। यस्माद् अयं ब्राह्मणः तस्मात् स तक्षकः प्रथमः क्षत्रियादिजातीयेभ्यः पूर्वभावी सन् सोमं पपौ द्युलोकस्थम् अमृतमयं सोमं पीतवान् । स च सोमपो ब्राह्मणः कन्दमूलादिजनितम् एतद् विषम् अरसम् रसरहितं निर्वीर्यं चकार करोतु । छान्दसो लिट् । जज्ञे इति । जनी प्रादुर्भावे इत्यस्मात् लिट् । 'गमहन' (पा ६,४,९८) इति उपधालोपे 'द्विर्वचनेऽचि' (पा १,१,५९ ) इति स्थानिवद्भावात् द्विर्वचनम् ।

याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॑त्स॒प्त सिन्ध॑वो वितष्ठि॒रे।
वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम् ।।२।।
यावती इति । द्यावापृथिवी इति । वरिम्णा । यावत् । सप्त । सिन्धवः । विऽतस्थिरे।
वाचम् । विषस्य । दूषणीम् । ताम् । इतः । निः । अवादिषम् ॥ २ ॥
द्यावापृथिवी द्यौश्च पृथिवी च द्यावापृथिव्यौ । 'दिवो द्यावा', 'दिवसश्च पृथिव्याम्' (पा ६,३, २९;३०) इति द्यावादेशः। 'वा छन्दसि' (पा ६,१,१०६) इति पूर्वसवर्णदीर्घः। ते द्यावापृथिव्यौ वरिम्णा उरुत्वेन विस्तारेण यावती यावत्यौ यावत्परिमाणयुक्ते भवतः । यच्छब्दात् 'यत्तदेतेभ्यः परिमाणे वतुप्' ( पा ५,२,३९ ) इति वतुप् । 'आ सर्वनाम्नः' (पा ६,३,९१ ) इति आत्वम् । वरिम्णेति । उरुशब्दाद् इमनिचि 'प्रियस्थिर' (पा ६,४,१५७ ) इत्यादिना वरादेशः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । तथा सप्त सप्तसंख्याकाः सिन्धवः समुद्रा यावत् यत्परिमाणवैशिष्ट्येन वितस्थिरे व्यावर्तन्ते । 'समवप्रविभ्यः स्थः' (पा १,३,२२) इति आत्मनेपदम् । इतः अस्मात् तादृक्परिमाणविशिष्टयोर्द्यावापृथिव्योः सकाशात् सप्तसमुद्रवेष्टितस्थानाच्च विषस्य दूषणीम् कन्दमूलादिजनितविषस्य नाशनीं ताम् तादृशीं वाचम् मन्त्रात्मिकां निरवादिषम् । ताल्वोष्ठपुटव्यापारेण निर्गमय्य उच्चारयामीत्यर्थः। वदेश्छान्दसो लुङ् । 'वदव्रजहलन्तस्याचः' (पा ७,२,३) इति वृद्धिः।


सु॑प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्।
नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ।।३।।
सुपर्णः । त्वा । गुरुत्मान् । विष । प्रथमम् । आवयत् ।
न । अमीमदः । न । अरूरुपः । उत । अस्मै । अभवः । पितुः ॥ ३॥
सुपर्णः शोभनपत्रयुक्तः । बहुव्रीहौ नञ्सुभ्याम्' (पा ६,२,१७२ ) इति उत्तरपदान्तोदात्तत्वम् । एवंभूतो गरुत्मान् वैनतेयः हे विष त्वा त्वां प्रथमम् पूर्वम् आवयत् । आवयतिः अत्तिकर्मा । अभक्षयत् । अतो निर्वीयत्वाद् विषोपहतं पुरुषं नामीमदः मत्तं ज्ञानविकलं मा कार्षीः । अत एव नारूरुपः । युप रुप लुप विमोहने इति धातुः। विमूढं मा कार्षीरित्यर्थः । उभयत्रापि ण्यन्तात् लुङि चङि रूपम् । उत अपि च अस्मै विषदुष्टाय पुरुषाय हे विष त्वं पितुः । अन्ननामैतत् । अन्नम् अभवः । छान्दसो लङ् । अन्नवज्जीर्णं भवेत्यर्थः।

यस्त॒ आस्य॒त्पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः।
अ॑पस्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम् ।।४।।
यः । ते । आस्यत् । पञ्चऽअङ्गुरिः । वक्रात् । चित् । अधि । धन्वनः । अपऽस्कम्भस्य । शल्यात् । निः । अवोचम् । अहम् । विषम् ॥ ४ ॥
पञ्चाङ्गुरिः पञ्च अङ्गुरयः अङ्गुलयो यस्य स तथोक्तः । 'वालमूललघ्वलमङ्गुलीनां वा रो लम् आपद्यते' ( पावा ८,२,१८ ) इति लत्वस्य विकल्पनाद् रेफः । एवंभूतो यो हस्तः ते त्वां वक्रात् वक्रीभूताद् अधि अधिज्याद् धन्वनः आस्यत् धनुर्यन्त्रेण पुरुषशरीरे प्राक्षिपत् । चिच्छब्दः अप्यर्थे । तं विषम् विषप्रदं हस्तम् अपस्कम्भस्य अपस्कभ्यते विधार्यते अन्तरिक्षे इति अपस्कम्भः क्रमुकवृक्षः तस्य शल्यात् शकलाद् निमित्ताद् अहं निरवोचम् मन्त्रेण निर्वीर्यं करोमि । यद्वा अपस्कभ्यते धनुषि धार्यते इति अपस्कम्भो बाणः । तस्य शल्यात् विषदिग्धाद् अयोमयाद् अग्रात् । यो विषम् आस्यत् इति संबन्धः । ष्टभि स्कभि गतिप्रतिबन्धे । अस्मात् कर्मणि घञ् । यद्वा तदीयं विषं निर्गतं ब्रवीमीत्यर्थः।

श॒ल्याद्वि॒षं निर॑वोच॒म्प्राञ्ज॑नादु॒त प॑र्ण॒धेः।
अ॑पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचम॒हम्वि॒षम् ।।५।।
शल्यात् । विषम् । निः । अवोचम् । प्रऽअञ्जनात् । उत । पर्णऽधेः ।
अपाष्ठात् । शृङ्गात् । कुल्मलात् । निः । अवोचम् । अहम् । विषम् ॥ ५॥
शल्यात् उक्तलक्षणाद् बाणादिशल्यात् संभूतं विषं निरवोचम् निर्गतं ब्रवीमि । तथा प्राञ्जनात् प्रलेपात् । उतशब्दः समुच्चये । पर्णधेः । पर्णानि पत्राणि धीयन्तेस्मिन्निति पर्णधिः इषुकाण्डः विषमयपत्रयुक्तो वृक्षो वा । तस्माञ्च यद् उद्भूतं विषम् अपाष्ठात् अपकृष्टावस्थाद् एतत्संज्ञाद् विषोपादानात् शृङ्गात् विषाणात् कुल्मलात् कुत्सितप्राणिमलाच्च यद् उद्भूतं विषम् तत् सर्वं विषम् अहं निरवोचम् निर्ब्रवीमि । मन्त्रसामर्थ्येन निर्गतं करोमीत्यर्थः।

अ॑र॒सस्त॑ इषो श॒ल्यो ऽथो॑ ते अर॒सं वि॒षम्।
उ॒तार॒सस्य॑ वृ॒क्षस्य॒ धनु॑ष्टे अरसार॒सम् ।।६।।
अरसः । ते । इषो इति । शल्यः । अथो इति । ते । अरसम् । विषम् ।
उत । अरसस्य । वृक्षस्य । धनुः । ते । अरस । अरसम् ॥ ६ ॥
हे इषो बाण ते त्वदीयो विषदिग्धः शल्यः अरसः निर्विषो भवतु । अथो अनन्तरं च ते त्वदीयं विषम् अरसम् रसरहितं निर्वीर्यं भवतु । उत अपि च अरसस्य निःसारस्य वृक्षस्य संबन्धि ते त्वदीयं धनु: अरसारसम् अत्यर्थम् अरसं नीरसं निर्वीर्यं भवतु।

ये अपी॑ष॒न्ये अदि॑ह॒न्य आस्य॒न्ये अ॒वासृ॑जन्।
सर्वे॑ ते॒ वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृ॒तः ।।७।।
ये । अपीषन् । ये । अदिहन् । ये । आस्यन् । ये । अवऽअसृजन् ।
सर्वे । ते । वध्रयः । कृताः । वध्रिः । विषऽगिरिः । कृतः ॥७॥
ये जनाः अपीषन् विषोपादानम् औषधम् अपिंषन् । चूर्णीकृत्य प्रयच्छन्तीत्यर्थः । छान्दसो लङ् । ये च जना अदिहन अलिम्पन् । लेपनविषं प्रयुञ्जत इत्यर्थः । ये च आस्यन् विषम् अस्यन्ति दूरात् प्रक्षिपन्ति ये च अवासृजन् समीपस्थाः विषम् अन्नपानादिषु संसृजन्ति ते सर्वे जनाः एतन्मन्त्रप्रभावाद् वध्रयः निर्वीर्याः कृताः । विषगिरिः कन्दमूलादिविषोत्पत्तिहेतुः पर्वतश्च वध्रिः निर्वीर्यः कृतः ।

वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे।
वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम् ।।८।।
वध्रयः । ते । खनितारः । वध्रिः । त्वम् । असि । ओषधे ।
वध्रिः । सः । पर्वतः । गिरिः । यतः । जातम् । इदम् । विषम् ॥ ८॥
हे ओषधे विषोपादानभूते ते तव कन्दमूलादेः खनितारः खननेन उद्धर्तारो जनाः वध्रयः निर्वीर्या भवन्तु । त्वम् अपि मन्त्रप्रभावात् वध्रिरसि निर्वीर्या भवसि । स तादृशः पर्वतः पर्ववान् गिरिः शिलोच्चयः वध्रिः निर्वीर्यो भवति । यतः यस्माद् गिरेः इदम् कन्दमूलादिलक्षणं विषं जातम् उत्पन्नम् । स पर्वत इति संबन्धः । जातम् इति । जनेः कर्तरि निष्ठा । 'श्वीदितो निष्ठायाम्' (पा ७,२,१४) इति इट्प्रतिषेधः । 'जनसनखनां सञ्झलोः' (पा ६,४,४२) इति आत्त्वम् ।

इति चतुर्थे काण्डे द्वितीयेऽनुवाके प्रथमं सूक्तम् ।

सम्पाद्यताम्