← सूक्तं ४.२७ अथर्ववेदः - काण्डं ४
सूक्तं ४.२८
मृगारोऽथर्वा वा।
सूक्तं ४.२९ →
दे. भवाशर्वौ रुद्रो वा। त्रिष्टुप्, १ अतिजागतगर्भा भुरिक्।

भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते ।
यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥१॥
ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥२॥
सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥३॥
यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥४॥
ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥५॥
यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥६॥
अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी ।
स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥