← सूक्तं ४.३६ अथर्ववेदः - काण्डं ४
सूक्तं ४.३७
बादरायणिः।
सूक्तं ४.३८ →
दे. अजशृङ्गी, १ अप्सरसः, १-२, ६, १० औषधी अजशृङ्गी, ३-५ अप्सरसः, ७-१२ गन्धर्वाप्सरसः। अनुष्टुप्..........

त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।
त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः ॥१॥
त्वया वयमप्सरसो गन्धर्वांस्चातयामहे ।
अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥२॥
नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् ।
गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी ।
तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥३॥
यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः ।
तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥४॥
यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति ।
तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥५॥
एयमगन्न् ओषधीनां वीरुधां वीर्यावती ।
अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥६॥
आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः ।
भिनद्मि मुष्कावपि यामि शेपः ॥७॥
भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः ।
ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥८॥
भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः ।
ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥९॥
अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् ।
पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च ॥१०॥
श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः ।
प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्।
तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥११॥
जाया इद्वो अप्सरसो गन्धर्वाः पतयो यूयम् ।
अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥१२॥