← सूक्तं ४.३८ अथर्ववेदः - काण्डं ४
सूक्तं ४.३९
अङ्गिरा-, ९-१० ब्रह्मा च।
सूक्तं ४.४० →
दे. १-२ पृथिव्यग्नी, २-४ वाय्वन्तरिक्षे, ५-६ दिवादित्यौ, ७-८ दिक्चन्द्रमसः, ९-१० जातवेदोग्निः। संनतिः। पङ्क्तिः......

पृथिव्यामग्नये समनमन्त्स आर्ध्नोत्।
यथा पृथिव्यामग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥१॥
पृथिवी धेनुस्तस्या अग्निर्वत्सः ।
सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् ।
आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥
अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्।
यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥
अन्तरिक्षं धेनुस्तस्या वायुर्वत्सः ।
सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् ।
आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥
दिव्यादित्याय समनमन्त्स आर्ध्नोत्।
यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥
द्यौर्धेनुस्तस्या आदित्यो वत्सः ।
सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् ।
आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥
दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्।
यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥
दिशो धेनवस्तासां चन्द्रो वत्सः ।
ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥८॥
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ ।
नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥९॥
हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् ।
सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥१०॥