← सूक्तं ५.०४ अथर्ववेदः - काण्डं ५
सूक्तं ५.५
अथर्वा।
सूक्तं ५.०६ →
दे. लाक्षा। अनुष्टुप्।

रात्री माता नभः पितार्यमा ते पितामहः ।
सिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥
यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।
भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥२॥
वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।
जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥
यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् ।
तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥४॥
भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्।
भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥५॥
हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे ।
रुतं गच्छासि निष्कृते निष्कृतिर्नाम वा असि ॥६॥
हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षणे ।
अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥
सिलाची नाम कानीनोऽजबभ्रु पिता तव ।
अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥
अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे ।
सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥९॥