← सूक्तं ५.१५ अथर्ववेदः - काण्डं ५
सूक्तं ५.१६
ऋषिः - विश्वामित्रः
सूक्तं ५.१७ →
दे. एकवृषः। एकावसानं द्वैपदम्, १,४,५, ७-१० साम्नी उष्णिक्, २, ३, ६ आसुरी अनुष्टुप्, ११ आसुरी गायत्री।

यद्येकवृषोऽसि सृजारसोऽसि ॥१॥
यदि द्विवृषोऽसि सृजारसोऽसि ॥२॥
यदि त्रिवृसोऽसि सृजारसोऽसि ॥३॥
यदि चतुर्वृषोऽसि सृजारसोऽसि ॥४॥
यदि पञ्चवृषोऽसि सृजारसोऽसि ॥५॥
यदि षड्वृषोऽसि सृजारसोऽसि ॥६॥
यदि सप्तवृषोऽसि सृजारसोऽसि ॥७॥
यद्यष्टवृषोऽसि सृजारसोऽसि ॥८॥
यदि नववृषोऽसि सृजारसोऽसि ॥९॥
यदि दशवृषोऽसि सृजारसोऽसि ॥१०॥
यद्येकादशोऽसि सोऽपोदकोऽसि ॥११॥