← सूक्तं ५.२० | अथर्ववेदः - काण्डं ५ सूक्तं ५.२१ ऋषिः - ब्रह्मा |
सूक्तं ५.२२ → |
दे. वनस्पतिः, दुन्दुभिः, १०-१२ आदित्यादयः। |
विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे ।
विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥१॥
उद्वेपमाना मनसा चक्षुषा हृदयेन च ।
धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥२॥
वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः ।
प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥३॥
यथा मृगाः संविजन्त आरण्याः पुरुषादधि ।
एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥
यथा वृकादजावयो धावन्ति बहु बिभ्यतीः ।
एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥
यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा ।
एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥
परामित्रान् दुन्दुभिना हरिणस्याजिनेन च ।
सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥
यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह ।
तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥८॥
ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः ।
सेनाः पराजिता यतीरमित्राणामनीकशः ॥९॥
आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत ।
पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥१०॥
यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् ।
सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥११॥
एता देवसेनाः सूर्यकेतवः सचेतसः ।
अमित्रान् नो जयन्तु स्वाहा ॥१२॥