← सूक्तं ६.०१० अथर्ववेदः - काण्डं ६
सूक्तं ६.०११
ऋषिः - प्रजापतिः
सूक्तं ६.०१२ →
दे. रेतः, ३ प्रजापतिः, अनुमतिः, सिनीवाली। अनुष्टुप्।

उद्गातुः ऊरूरोपरि अरणिमन्थनम्

शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् ।
तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥१॥
पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते ।
तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्॥२॥
प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्।
स्त्रैषूयमन्यत्र दधत्पुमांसमु दधदिह ॥३॥

सायणभाष्यम्

द्वितीयेऽनुवाके पञ्च सूक्तानि । तत्र 'शमीमश्वत्थः' इति प्रथमं सूक्तम् । तत्र आद्येन तृचेन पुंसवनकर्मणि शमीगर्भाश्वत्थाग्निं मधुमन्थे प्रक्षिप्य अभिमन्त्र्य स्त्रियं पाययेत् ।
तथा तस्मिन्नेव कर्मणि तथाविधमेवाग्निं कृष्णोर्णया वेष्टयित्वा अनेन तृचेन संपात्य अभिमन्त्र्य स्त्रिया बध्नीयात् ।
आह च कौशिकः । “'शमीमश्वत्थः' (अ ६,११,१) इति मन्त्रोक्ते अग्निं मथित्वा पुंस्याः सर्पिषि पैज्वमिव । मधुमन्थे पाययति । कृष्णोर्णाभिः परिवेष्ट्य बध्नाति " (कौसू ३५,८-१०) इति ।
'परि द्यामिव' (अ ६,१२) इति तृचेन सर्पविषभैषज्यकर्मणि मधुक्रीडम् अभिमन्त्र्य विषावृतं पाययेत् ।
तथा तस्मिन्नेव कर्मणि अनेन तृचेन 'ब्राह्मणो जज्ञे' (अ ४,६) इति सूक्तोक्तजपाचमनादीनि कर्माणि कुर्यात् ।
" 'परि द्यामिव' (अ ६,२१) इति मधु शीभं पाययति । जपादींश्च” (कौसू २९, २८,२९) इति कौशिकसूत्रम् ।


शमीम॑श्व॒त्थ आरू॑ढ॒स्तत्र॑ पुं॒सुव॑नं कृ॒तम्।
तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्स्त्री॒ष्वा भ॑रामसि ।।१।।
शमीम् । अश्वत्थः । आऽरूढः । तत्र । पुम्ऽसुवनम् । कृतम्।
तत् । वै । पुत्रस्य । वेदनम् । तत् । स्त्रीषु । आ । भरामसि ॥ १॥
शमीम् एतत्संज्ञं वृक्षम् अश्वत्थः अश्वत्थाख्यो वृक्ष आरूढः अधिरूढः । अग्निदाहशमनहेतुर्वृक्षः शमी । 'प्रजापतिरग्निमसृजत । सोऽबिभेत् प्र मा धक्ष्यतीति । तं शम्याशमयत् । तच्छम्यै शमित्वम्' (तैब्रा १,१,३,११,१२) इति । स च अग्निः अश्वो भूत्वा यस्मिन् वृक्षे पुरा संवत्सरम् अवात्सीत् स वृक्षः अश्वत्थः । 'सुपि स्थः' (पा ३,२,४) इति अश्वशब्दोपपदात् तिष्ठतेः कप्रत्ययः । पृषोदरादिः। श्रूयते हि - 'अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा। सोऽश्वत्थे संवत्सरम् अतिष्ठत् । तद् अश्वत्थस्याश्वत्थत्वम्' (तैब्रा १,१,३,९) इति । तद् अयमर्थः । शमी स्त्री । अश्वत्थः पुमान् । स च अग्निलक्षणं पुत्रम् उत्पादयितुं ताम् अधिरूढः । तस्या उपरि उत्पन्न इत्यर्थः । ईदृशाद् अश्वत्थाद् अग्निमन्थनार्थम् अरण्योराहरणम् । तथा च श्रुतम् - 'शमीगर्भाद् अग्निं मन्थति । एषा वा अग्नेर्यज्ञिया तनूः। तामेवास्मै जनयति' (तैब्रा १,१,९,१) इति । तत्र तादृशे अश्वत्थे पुंसवनम् पुमान् सूयते येन कर्मणा तत् पुंसवनम् तत् कृतम् अनुष्ठितम् । तद् वै तत् खलु पुत्रस्य वेदनम् लम्भकं तत् पुत्रजनननिमित्तं कर्म स्त्रीषु आ भरामसि आहरामः संपादयामः । 'इदन्तो मसि' (पा ७,१,४६ ) इति ।

पुं॒सि वै रेतो॑ भवति॒ तत्स्त्रि॒यामनु॑ षिच्यते।
तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्प्र॒जाप॑तिरब्रवीत् ।।२।।
पुंसि । वै । रेतः । भवति । तत् । स्त्रियाम् । अनु । सिच्यते ।
तत् । वै । पुत्रस्य । वेदनम् । तत् । प्रजाऽपतिः । अब्रवीत् ॥२॥
पुंसि वै पुरुषे खलु प्रथमं बीजभूतं रेतः आश्रितं भवति । तत् गर्भाधानकर्मणा स्त्रियाम् अनु सिच्यते गर्भाशये प्रक्षिप्यते । तत् वै खलु निषिक्तं रेतः पुत्रस्य वेदनम् उत्पत्स्यमानस्य पुत्रस्य लम्भकम् । 'पुरुषे ह वा अयमादितो गर्भो भवति' (ऐआ २,५,१) इत्यादिकमैतरेयकमत्र द्रष्टव्यम् । तद् एतत् पुंसवनं कर्म प्रजापतिः प्रजानां स्रष्टा अब्रवीत् । पुत्रजननोपायत्वेन लोके प्रकाशितवान् इत्यर्थः।

प्र॒जाप॑ति॒रनु॑मतिः सिनीवा॒ल्य॑चीक्ळृपत्।
स्त्रैषू॑यम॒न्यत्र॒ दध॒त्पुमां॑समु दधदि॒ह ।।३।।
प्रजाऽप॑तिः । अनुऽमतिः । सिनीवाली । अचीक्लृपत् ।
स्त्रैसूयम् । अन्यत्र । दधत् । पुमांसम् । ऊं इति । दधत् । इह ॥ ३ ॥
प्रजापतिः संवत्सरात्मकः अनुमतिः पौर्णमासीदेवता सिनीवाली अमावास्यादेवता च निषिक्तं गर्भाशयस्थं रेतः अचीक्लृपत् हस्तपादाद्यवयवकल्पनया समर्थम् अकार्षीत् । कृपू सामर्थ्ये इत्यस्मात् लुङि रूपम् । किं कुर्वन् । स्त्रै सूयम् स्त्रीप्रसवसंबन्धि निमित्तम् अन्यत्र अस्मत्तो व्यतिरिक्ते स्थाने दधत् स्थापयन् इह अस्मासु पुमांसमु पुमपत्यमेव दधत् कुर्वन् । संवत्सरकालावसाने समर्थम् अकार्षीद् इत्यर्थः।