← सूक्तं ६.०१७ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०१८ ऋषिः - अथर्वा। |
सूक्तं ६.०१९ → |
दे. ईर्ष्याविनाशनम्। अनुष्टुप्। |
ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।
अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥१॥
यथा भूमिर्मृतमना मृतान् मृतमनस्तरा ।
यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः ॥२॥
अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।
ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥३॥