← सूक्तं ६.०२५ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०२६ ऋषिः - ब्रह्मा। |
सूक्तं ६.०२७ → |
दे. पाप्मा। अनुष्टुप् |
अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः ।
आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम् ॥१॥
यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् ।
पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम् ॥२॥
अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः ।
यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि ॥३॥