← सूक्तं ६.०२७ अथर्ववेदः - काण्डं ६
सूक्तं ६.०२८
ऋषिः - भृगुः।
सूक्तं ६.०२९ →
दे. यमः, निर्ऋतिः। १ त्रिष्टुप्, २ अनुष्टुप्, ३ जगती।

ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः ।
संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः ॥१॥
परीमेऽग्निमर्षत परीमे गामनेषत ।
देवेष्वक्रत श्रवः क इमामा दधर्षति ॥२॥
यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः ।
योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥