← सूक्तं ६.०३५ अथर्ववेदः - काण्डं ६
सूक्तं ६.०३६
कौशिकः।
सूक्तं ६.०३७ →
दे. वैश्वानरः। गायत्री ।

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
अजस्रं घर्ममीमहे ॥१॥
स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी ।
यज्ञस्य वय उत्तिरन् ॥२॥
अग्निः परेषु धामसु कामो भूतस्य भव्यस्य ।
सम्रादेको वि राजति ॥३॥