← सूक्तं ६.०४७ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०४८ अङ्गिराः प्रचेता। |
सूक्तं ६.०४९ → |
दे. १ श्येनः, २ ऋभुः, ३ वृषा। उष्णिक्। |
श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥१॥
ऋभुरसि जगच्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥२॥
वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥३॥