← सूक्तं ६.०६६ अथर्ववेदः - काण्डं ६
सूक्तं ६.०६७
ऋषिः - अथर्वा
सूक्तं ६.०६८ →
दे. इन्द्रः। अनुष्टुप्।

परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः ।
मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१॥
मूढा अमित्राश्चरताशीर्षाण इवाहयः ।
तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥२॥
ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।
पराङमित्र एषत्वर्वाची गौरुपेषतु ॥३॥