← सूक्तं ६.०८२ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०८३ ऋषिः - भगः |
सूक्तं ६.०८४ → |
दे. १ सूर्यः, चन्द्रमाः, २ रोहिणी, ३ रामायणी। अनुष्टुप्, ४ एकावसाना द्विपदा निचृदार्च्यनुष्टुप् |
अपचितः प्र पतत सुपर्णो वसतेरिव ।
सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोच्छतु ॥१॥
एन्येका श्येन्येका कृष्णैका रोहिणी द्वे ।
सर्वासामग्रभं नामावीरघ्नीरपेतन ॥२॥
असूतिका रामायण्यपचित्प्र पतिष्यति ।
ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥३॥
वीहि स्वामाहुतिं जुषाणो मनसा स्वाहा मनसा यदिदं जुहोमि ॥४॥
सायणभाष्यम्
नवमेऽनुवाके पञ्च सूक्तानि । 'अपचितः' इति प्रथमं सूक्तम् । तत्र 'अपचितः' इति तृचेन गण्डमालाभैषज्यकर्मणि शङ्खं घृष्ट्वा अभिमन्त्र्य शुनकलालां वा अभिमन्त्र्य गण्डमालां प्रलिम्पेत् ।
तथा तत्रैव कर्मणि अनेन तृचेन जलूकां गृहगोधिकां वा अभिमन्त्र्य रुधिरमोक्षार्थं गण्डमालास्थाने संश्लेषयेत् ।।
तथा तत्रैव कर्मणि सैन्धवलवणं चूर्णयित्वा अभिमन्य गण्डमालायां विकीर्य तूष्णीं निष्ठीवेत्।
सूत्रितं हि-'अपचितः' (अ ६,८३ ), 'आ सुस्रसः' ( अ ७,८०) इति किंस्त्यादीनि लोहितलवणं संक्षुद्य अभिनिष्ठीवति ( कौसू ३१,१६,१७ ) इति ।
तत्रैव कर्मणि 'ग्लौरितः प्र पतिष्यति' (३) इत्यर्धर्चं जपन् गोमूत्रेण गण्डं मर्दयेत् प्रक्षालयेद् वा।
तथा अनेनैव दन्तमलम् अभिमन्त्र्य गण्डमालां प्रलिम्पेत् । “ग्लौः' इत्यर्धर्चेन" ( कौसू ३१,२० ) इति सूत्रात् ।।
वीहि स्वाम्' इति चतुर्ऋचेन' चतुष्पाद्गण्डभैषज्यार्थं शान्त्युदकम् अभिमन्त्र्य व्रणं प्रोक्षेत्।
तथा तस्मिन्नेव कर्मणि अनेन चतुर्ऋचेन आज्यं हुत्वा मनसा संकल्प्य व्रणे संपातान् आनयेत्।
सूत्रितं हि - वीहि स्वाम् इत्यज्ञातारुः शान्त्युदकेन संप्रोक्ष्य मनसा संपातवता (कौसू ३१,२१) इति।
अप॑चितः॒ प्र प॑तत सुप॒र्णो व॑स॒तेरि॑व।
सूर्यः॑ कृ॒णोतु॑ भेष॒जं च॒न्द्रमा॒ वो ऽपो॑छतु ।।१।।
अपऽचितः । प्र । पतत । सुऽपर्णः । वसतेः ऽइव ।
सूर्यः । कृणोतु । भेषजम् । चन्द्रमाः । वः । अप । उच्छतु ॥ १॥
हे अपचितः दोषवशाद् अपाक् चीयमानाः गलादारभ्य अधस्तात् प्रसृता गण्डमालाः प्र पतत अस्मात् शरीरात् प्रकर्षेण निर्गच्छत । तत्र दृष्टान्तः-- सुपर्ण इति । सुपर्णः शोभनपतनः श्येनः वसतेरिव आवासस्थानाद् नीडाद् यथा शीघ्रं प्रपतति तथा पुरुषस्य गण्डस्याधस्तात्प्रदेशम् आशु विसृज्य धावतेत्यर्थः। अपचित इति । अपपूर्वाच्चिनोतेः कर्मणि क्विप् । हे अपचितः वः युष्माकं भेषजम् चिकित्सनं सूर्यः सर्वस्य प्रेरक आदित्यः कृणोतु करोतु । चन्द्रमाः अमृतमयश्चन्द्रो वः युष्मान् अपोच्छतु अपवासयतु । अपवर्जयत्वित्यर्थः । उछी विवासे ।
एन्येका॒ श्येन्येका॑ कृ॒ष्णैका॒ रोहि॑णी॒ द्वे।
सर्वा॑सा॒मग्र॑भं॒ नामावी॑रघ्नी॒रपे॑तन ।।२।।
एनी । एका। श्येनी । एका । कृष्णा । एका । रोहिणी इति । द्वे इति ।
सर्वासाम् । अग्रभम् । नाम । अवीरऽघ्नीः । अप । इतन ॥२॥
अनया अपचित्प्रभेदानां नामग्रहणेन तासामपगमनं प्रार्थ्यते-- एका गण्डमाला एनी एतवर्णा । ईषद्रक्तमिश्रश्वेतः एतवर्णः । एका अपरा श्येनी श्येतवर्णा । अत्यन्तशुभ्रेत्यर्थः । एतश्येतशब्दाभ्यां 'वर्णादनुदात्तात्तोपधात्तो नः' (पा ४,१,३९) इति ङीप् तकारस्य च नकारः । एका अन्या गण्डमाला कृष्णा कृष्णवर्णा । अन्ये द्वे गण्डमाले रोहिणी रोहिण्यौ लोहितवर्णे । रोहितशब्दात् पूर्ववद् ङीम्नकारौ । वातपित्तश्लेष्मवशाद् वर्णनानात्वाद् एतासां नानात्वम् । सर्वासाम् अपचिताम् । उदीरितवर्णव्यतिरेकाभावात् । नाम प्रीतिकरं नामधेयम् अहम् अग्रभम् अग्रहीषम् उच्चारयामि । छान्दसश्च्लेर्लुक् । 'हृग्रहोर्भः' (पावा ८,२,३२) इति भत्वम् । हे अपचितः यूयम् अस्मान्नामग्रहणात् प्रीताः सत्यः अवीरघ्नीः वीरम् इमं पुरुषं गण्डमालाग्रस्तम् अहन्त्र्यः अपेतन अपगच्छत । एतेर्लोटि 'तप्तनप्तनथनाश्च' (पा ७,१,४५) इति तस्य तनादेशः । अवीरघ्नीरिति । वीरशब्दोपपदात् हन्तेः 'बहुलं छन्दसि' (पा ३,२,८८ ) इति क्विप् । 'ऋन्नेभ्यो ङीप्' (पा ४,१,५) इति ङीप् । 'अल्लोपोऽनः' (पा ६,४,१३४ ) इति अकारलोपः। 'वा च्छन्दसि' (पा ६,१,१०६) इति पूर्वसवर्णदीर्घत्वम् ।
अ॒सूति॑का रामाय॒ण्य॑प॒चित्प्र प॑तिष्यति।
ग्लौरि॒तः प्र प॑तिष्यति॒ स ग॑लु॒न्तो न॑शिष्यति ।।३।।
असूतिका । रामायणी । अपऽचित् । प्र। पतिष्यति ।
ग्लौः । इतः । प्र । पतिष्यति । सः । गलुन्तः । नशिष्यति ॥ ३ ॥
असूतिका पूयस्रावम् अजनयन्ती । चिरपरिपाकेत्यर्थः। रामायणी रमते आसु प्राणवायुरिति रामा नाड्यः ता अयनं प्रधावनमार्गो यस्याः सा रामायणी नाडी। व्रणात्मिकेत्यर्थः। एवंभूता अपचित् प्र पतिष्यति अस्मात् शरीरात् प्रगता अन्यत्र गमिष्यति । मन्त्रसामर्थ्याद् इत्यर्थः । ग्लौः व्रणजनितो हर्षक्षयः इतः अस्माद् अङ्गात् प्र पतिष्यति व्याध्यपगमे तज्जनितदुःखानुभवोऽपि प्रकर्षेण निर्गमिष्यतीत्यर्थः । यद्वा ग्लौश्चन्द्रमाः इतः अस्माद् गोमूत्रजलावसेकाद् अपचितं प्र पतिष्यति । पतिरत्र अन्तर्णीतण्यर्थः। प्रगमयिष्यति । चन्द्रमा वोऽपोच्छतु इत्युक्त एवार्थोऽनूद्यते । स चन्द्रमाः गलुन्तः गण्डमालोद्भवविकारेण तत्र तत्र हस्तपादादिसंधिषु उद्भूतान् गडून् तस्यति उपक्षपयतीति गडुन्तः । तसु उपक्षये । अस्माद् औणादिकः क्विप् । नकारोपजनश्छान्दसः । न शिष्यति नावशेषयति । सर्वव्रणविकारं निवर्तयतीत्यर्थः ।
वी॒हि स्वामाहु॑तिं जुषा॒नो मन॑सा॒ स्वाहा॒ मन॑सा॒ यदि॒दं जु॒होमि॑ ।।४।।
वीहि । स्वाम् । आऽहुतिम् । जुषाणः । मनसा । स्वाहा । मनसा । यत् । इदम् । जुहोमि ॥४॥
हे व्रणरोगाभिमानिन् देव त्वं स्वाम् स्वकीयाम् आहुतिं मनसा जुषाणः सेवमानो वीहि भक्षय । स्वाहा स्वाहुतम् इदं हविरस्तु अहमपि मनसा एव यद् इदं हविः जुहोमि ।
टिप्पणी