← सूक्तं ६.०८८ अथर्ववेदः - काण्डं ६
सूक्तं ६.०८९
ऋषिः - अथर्वा
सूक्तं ६.०९० →
दे. (रुद्रः) १ सोमः, २ वातः, ३ मित्रावरुणौ। अनुष्टुप्।

इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् ।
ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥१॥
शोचयामसि ते हार्दिं शोचयामसि ते मनः ।
वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥२॥
मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती ।
मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥३॥