← सूक्तं ६.१११ अथर्ववेदः - काण्डं ६
सूक्तं ६.११२
ऋषिः -अथर्वा।
सूक्तं ६.११३ →
दे. अग्निः। त्रिष्टुप्।

मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम् ।
स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥१॥
उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन् ।
स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥२॥
येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च ।
वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥३॥