← सूक्तं ६.१२० अथर्ववेदः - काण्डं ६
सूक्तं ६.१२१
कौशिकः।
सूक्तं ६.१२२ →
दे. अग्निः, ३ तारके। १-२ त्रिष्टुप्, ३-४ अनुष्टुप्।

विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये ।
दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥१॥
यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा ।
अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥२॥
उदगातां भगवती विचृतौ नाम तारके ।
प्रेहामृतस्य यच्छतां प्रैतु बद्धकमोचनम् ॥३॥
वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् ।
योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय ॥४॥