← सूक्तं ६.१२५ अथर्ववेदः - काण्डं ६
सूक्तं ६.१२६
ऋषिः - अथर्वा
सूक्तं ६.१२७ →
दे. दुन्दुभिः। भुरिक् त्रिष्टुप्, ३ पुरोबृहतीगर्भा त्रिष्टुप्।

उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्।
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥१॥
आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः ।
अप सेध दुन्दुभे दुछुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥२॥
प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु ।
समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३॥