← सूक्तं ६.१३३ अथर्ववेदः - काण्डं ६
सूक्तं ६.१३४
ऋषिः - शुक्रः।
सूक्तं ६.१३५ →
दे. वज्रः। १ परानुष्टुप् त्रिष्टुप्, २अनुष्टुप्, ३ भुरिक् त्रिपदा गायत्री।

अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम् ।
शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥१॥
अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्।
वज्रेणावहतः शयाम् ॥२॥
यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि ।
जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥३॥