← सूक्तं ६.१३८ अथर्ववेदः - काण्डं ६
सूक्तं ६.१३९
ऋषिः - अथर्वा
सूक्तं ६.१४० →
दे. वनस्पतिः।

न्यस्तिका रुरोहिथ सुभगंकरणी मम ।
शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥
तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥
शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् ।
अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥२॥
संवननी समुष्पला बभ्रु कल्याणि सं नुद ।
अमूं च मां च सं नुद समानं हृदयं कृधि ॥३॥
यथोदकमपपुषोऽपशुष्यत्यास्यम् ।
एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥४॥
यथा नकुलो विछिद्य संदधात्यहिं पुनः ।
एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥५॥