← सूक्तं ७.०१८ अथर्ववेदः - काण्डं ७
सूक्तं ७.०१९
अथर्वा।
सूक्तं ७.०२० →
दे. पृथिवी, पर्जन्यः। १. चतुष्पदा भुरिगुष्णिक्, २ त्रिष्टुप्।

7.19(7.18)
प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः ।
उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् ॥१॥
न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः ।
आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम् ॥२॥