← सूक्तं ७.०२२ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०२३(७.०२२) ब्रह्मा। |
सूक्तं ७.०२४ → |
दे. ब्रध्नः। द्विपदा एकावसाना विराड्गायत्री, २ त्रिपदा अनुष्टुप्। |
अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥१॥
ब्रध्नः समीचीरुषसः समैरयन् ।
अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः ॥२॥