← सूक्तं ७.४२ अथर्ववेदः - काण्डं ७
सूक्तं ७.४३(७.४२)
ऋषिः - प्रस्कण्वः
सूक्तं ७.४४ →
दे. सोमारुद्रौ। त्रिष्टुप्।

सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।
बाधेथां दूरं निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥१॥
सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम् ।
अव स्यतं मुञ्चतं यन् नो असत्तनूषु बद्धं कृतमेनो अस्मत्॥२॥