← सूक्तं ७.०५५ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०५६, ०५७-१(७.०५४) ऋषिः - १ ब्रह्मा , २ भृगुः। |
सूक्तं ७.०५७ → |
दे. १ ऋक्सामनी, २ इन्द्रः। अनुष्टुप्। |
ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते ।
एते सदसि राजतो यज्ञं देवेषु यच्छतः ॥१॥
ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् ।
एष मा तस्मान् मा हिंसीद्वेदः पृष्टः शचीपते ॥१॥