← सूक्तं ७.०६२ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०६३(७.०६१) ऋषिः - अथर्वा। |
सूक्तं ७.०६४ → |
दे. अग्निः। अनुष्टुप्। |
यदग्ने तपसा तप उपतप्यामहे तपः ।
प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥१॥
अग्ने तपस्तप्यामह उप तप्यामहे तपः ।
श्रुतानि शृण्वन्तः वयमायुष्मन्तः सुमेधसः ॥२॥