← सूक्तं ७.०६९ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०७०-०७१(७.०६८) ऋषिः - शन्तातिः। |
सूक्तं ७.०७२ → |
दे. सरस्वती। १. अनुष्टुप्, २. त्रिष्टुप्, ३. गायत्री। |
सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।
जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥१॥
इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्।
इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥२॥
शिवा नः शंतमा भव सुमृडीका सरस्वति ।
मा ते युयोम संदृशः ॥१॥