← सूक्तं ७.०७४ अथर्ववेदः - काण्डं ७
सूक्तं ७.०७५(७.७२)
अथर्वा
सूक्तं ७.०७६ →
दे. इन्द्रः। १ अनुष्टुप्, २ त्रिष्टुप् ।

उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् ।
यदि श्रातं जुहोतन यद्यश्रातं ममत्तन ॥१॥
श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् ।
परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥२॥